भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.53

3.53.1

॥18॥.
-र्व्_3:3।19-
(र्व्_3,53)
इन्द्रापर्वता । बृहता । रथेन । वामीः । इषः । आ । वहतम् । सु-वीराः । वीतम् । हव्यानि । अध्वरेषु । देवा । वर्धेथाम् । गीः-भिः । इळिया । मदन्ता

3.53.2

तिष्ठ । सु । कम् । मघ-वन् । मा । परा । गाः । सोमस्य । नु । त्वा । सु-सुतस्य । यक्षि । पितुः । न । पुत्रः । सिचम् । आ । रभे । ते । इन्द्र । स्वादिष्ठया । गिरा । शची-वः

3.53.3

शंसाव । अध्वर्यो इति । प्रति । मे । गृणीहि । इन्द्राय । वाहः । कृणवाव । जुष्टम् । आ । इदम् । बर्हिः । यजमानस्य । सीद । अथ । च । भूत् । उक्थम् । इन्द्राय । शस्तम्

3.53.4

जाया । इत् । अस्तम् । मघ-वन् । सा । इत् । ओं इति । योनिः । तत् । इत् । त्वा । युक्ताः । हरयः । वहन्तु । यदा । कदा । च । सुनवाम । सोमम् । अग्न् । त्वा । दूतः । धन्वाति । अच्छ

3.53.5

परा । याहि । मघ-वन् । आ । च । याहि । इन्द्र । भ्रातः । उभयत्र । ते । अर्थम् । यत्र । रथस्य । बृहतः । नि-धानम् । वि-मोचनम् । वाजिनः । रासभस्य

3.53.6

॥19॥.
-र्व्_3:3।20-
अपाः । सोमम् । अस्तम् । इन्द्र । प्र । याहि । कल्याणीः । जाया । सु-रणम् । गृहे । ते । यत्र । रथस्य । बृहतः । नि-धानम् । वि-मोचनम् । वाजिनः । दक्षिणावत्

3.53.7

इमे । भोजाः । अङ्गिरसः । वि-रूपाः । दिवः । पुत्रासः । असुरस्य । वीराः । विश्वामित्राय । ददतः । मघानि । सहस्र-सावे । प्र । तिरन्ते । आयुः

3.53.8

रूपम्-रूपम् । मघ-वा । बोभवीति । मायाः । कृण्वानः । तन्वम् । परि । स्वाम् । त्र् इः । यत् । दिवः । परि । मुहूर्तम् । आ । अगात् । स्वैः । मन्त्रैः । अनृतु-पाः । ऋत-वा

3.53.9

महान् । ऋषिः । देव-जाः । देव-जूतः । अस्तभ्नात् । सिन्धुम् । अर्णवम् । नृ-चक्षाः । विश्वामित्रः । यत् । अवहत् । सु-दासम् । अप्रियायत । कुशिकेभिः । इन्द्रः

3.53.10

हंसाः-इव । कृणुथ । श्लोकम् । अद्रि-भिः । मदन्तः । गीः-भिः । अध्वरे । सुते । सचा । देवेभिः । विप्राः । ऋषयः । नृ-चक्षसः । वि । पिबध्वम् । कुशिकाः । सोम्यम् । मधु

3.53.11

॥20॥.
-र्व्_3:3।21-
उप । प्र । इत । कुशिकाः । चेतयध्वम् । अश्वम् । राये । प्र । मुञ्चत । सु-दासः । राजा । वृत्रम् । जङ्घनत् । प्राक् । अपाक् । उदक् । अथ । यजाते । वरे । आ । पृथिव्याः

3.53.12

यः । इमे इति । रोदसी इति । उभे इति । अहम् । इन्द्रम् । अतुस्तवम् । विश्वामित्रस्य । रक्षति । ब्रह्म । इदम् । भारतम् । जनम्

3.53.13

विश्वामित्राः । अरासत । ब्रह्म । इन्द्राय । वज्रिणे । करत् । इत् । नः । सु-राधसः

3.53.14

किम् । ते । कृण्वन्ति । कीकटेषु । गावः । न । आशिरन् । दुह्रे । न । तपन्ति । घर्मम् । आ । नः । भर । प्र-मगन्दस्य । वेदः । नैचाशाखम् । मघ-वन् । रन्धय । नः

3.53.15

ससर्परीः । अमतिम् । बाधमाना । बृहत् । मिमाय । जमदग्नि-दत्ता । आ । सूर्यस्य । दुहिता । ततान । श्रवः । देवेषु । अमृतम् । अजुर्यम्

3.53.16

॥21॥.
-र्व्_3:3।22-
ससर्परीः । अभरत् । तूयम् । एभ्यः । अधि । श्रवः । पाञ्च-जन्यासु । कृष्टिषु । सा । पक्ष्या । नव्यम् । आयुः । दधाना । याम् । मे । पलस्ति-जमदग्नयः । ददुः

3.53.17

स्थिरौ । गावौ । भवताम् । वीळुः । अक्षः । मा । ईषा । वि । वर्हि । मा । युगम् । वि । शारि । इन्द्रः । पातल्ये इति । ददताम् । शरीतोः । अरिष्ट-नेमे । अभि । नः । सचस्व

3.53.18

बलम् । धेहि । तनूषु । नः । बलम् । इन्द्र । अनळुत्-सु । नः । बलम् । तोकाय । तनयाय । जीवसे । त्वम् । हि । बल-दाः । असि

3.53.19

अभि । व्ययस्व । खदिरस्य । सारम् । ओजः । धेहि । स्पन्दने । शिंशपायाम् । अक्ष । वीळो इति । वीळित । वीळयस्व । मा । यामात् । अस्मात् । अव । जीहिपः । नः

3.53.20

अयम् । अस्मान् । वनस्पतिः । मा । च । हाः । मा । च । रिरिषत् । स्वस्ति । आ । गृहेभ्यः । आ । अवसै । आ । वि-मोचनात्

3.53.21

॥22॥.
-र्व्_3:3।23-
इन्द्र । ऊति-भिः । बहुलाभिः । नः । अद्य । यात्-श्रेष्ठाभिः । मघ-वन् । शूर । जि न्व । यः । नः । द्वेष्टि । अधरः । सः । पदीष्ट । यम् । ओं इति । द्विष्मः । तम् । ओं इति । प्राणः । जहातु

3.53.22

परशुम् । चित् । वि । तपति । शिम्बलम् । चित् । वि । वृश्चति । उखा । चित् । इन्द्र येषन्ती । प्र-यस्ता । फेनम् । अस्यति

3.53.23

न । सायकस्य । चिकिते । जनासः । लोधम् । नयन्ति । पशु । मन्यमानाः । न । अवाजिनम् । वाजिना । हासयन्ति । न । गर्दभम् । पुरः । अश्वात् । नयन्ति

3.53.24

इमे । इन्द्र । भरतस्य । पुत्राः । अप-पित्वम् । चिकितुः । न । प्र-पित्वम् । हि न्वन्ति । अश्वम् । अरणम् । न । नित्यम् । ज्यावाजम् । परि । नयन्ति । आजौ

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc