ऋग्वेदसंहिता, पदपाठ · अध्याय 3.52
॥16॥.
-र्व्_3:3।17-
(र्व्_3,52)
धानावन्तम् । करम्भिणम् । अपूप-वन्तम् । उक्थिनम् । इन्द्र । प्रातः । जुषस्व । नः
पुरोळासम् । पचत्यम् । जुषस्व । इन्द्र । आ । गुरस्व । च । तुभ्यम् । हव्यानि । स् इस्रते
पुरोळासम् । च । नः । घसः । जोषयासे । गिरः । च । नः । वधूयुः-इव । योषणाम्
पुरोळासम् । सन-श्रुत । प्रातः-सावे । जुषस्व । नः । इन्द्र । क्रतुः । हि । ते । बृहन्
माध्यन्दिनस्य । सवनस्य । धानाः । पुरोळासम् । इन्द्र । कृष्व । इह । चारुम् । प्र । यत् । स्तोता । जरिता । तूर्णि-अर्थः । वृष-यमाणः । उप । गीः-भिः । ईटे
॥17॥.
-र्व्_3:3।18-
तृतीये । धानाः । सवने । पुरु-स्तुत । पुरोळाशम् । आहुतम् । ममहस्व । नः । ऋभु-मन्तम् । वाज-वन्तम् । त्वा । कवे । प्रयस्वन्तः । उप । शिक्षेम । धीति--भिः
पूषण्-वते । ते । चकृम । करम्भम् । हरि-वते । हरि-अश्वाय । धानाः । अपूपम् । अद्धि । स-गणः । मरुत्-भिः । सोमम् । पिब । वृत्र-हा । शूर । विद्वान्
प्रति । धानाः । भरत । तूयम् । अस्मै । पुरोळाशम् । वीर-तमाय । नृणाम् । दिवे--दिवे । स-दृशीः । इन्द्र । तुभ्यम् । वर्धन्तु । त्वा । सोम-पेयाय । धृष्णो इति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0