भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.51

3.51.1

॥14॥.
-र्व्_3:3।15-
(र्व्_3,51)
चर्षणि-धृतम् । मघ-वानम् । उक्थ्यम् । इन्द्रम् । गिरः । बृहतीः । अभि । अनूषत । ववृधनम् । पुरु-हूतम् । सुवृक्ति-भिः । अमर्त्यम् । जरमाणम् । दिवे--दिवे

3.51.2

शत-क्रतुम् । अर्णवम् । शाकिनम् । नरम् । गिरः । मे । इन्द्रम् । उप । यन्ति । विश्वतः । वाज-सनिम् । पूः-भिदम् । तूर्णिम् । अप्-तुरम् । धाम-साचम् । अभि-षाचम् । स्वः-विदम्

3.51.3

आकरे । वसोः । जरिता । पनस्यते । अनेहसः । स्तुभः । इन्द्रः । दुवस्यत् इ । विवस्वतः । सदने । आ । हि । पिप्रिये । सत्रासहम् । अभिमाति-हनम् । स्तुहि

3.51.4

नृणाम् । ओं इति । त्वा । नृ-तमम् । गीः-भिः । उक्थैः । अभि । प्र । वीरम् । अर्चत । स-बाधः । सम् । सहसे । पुरु-मायः । जिहीते । नमः । अस्य । प्र-दिवः । एकः । ईशे

3.51.5

पूर्वीः । अस्य । निः-सिधः । मर्त्येषु । पुरु । वसूनि । पृथिवी । बिभर्ति । इन्द्राय । द्यावः । ओषधीः । उत । आपः । रयिम् । रक्षन्ति । जीरयः । वनानि

3.51.6

॥15॥.
-र्व्_3:3।16-
तुभ्यम् । ब्रह्माणि । गिरः । इन्द्र । तुभ्यम् । सत्रा । दधिरे । हरि-वः । जुषस्व । बोधि । आपिः । अवसः । नूतनस्य । सखे । वसो इति । जरितृ-भ्यः । वयः । धाः

3.51.7

इन्द्र । मरुत्वः । इह । पाहि । सोमम् । यथा । शार्याते । अपिबः । सुतस्य । तव । प्र-नीती । तव । शूर । शर्मन् । आ । विवासन्ति । कवयः । सु-यज्ञाः

3.51.8

सः । वावशानः । इह । पाहि । सोमम् । मरुत्-भिः । इन्द्र । सखि-भिः । सुतम् । नः । जातम् । यत् । त्वा । परि । देवाः । अभूषन् । महे । भराय । पुरु-हूत । विश्वे

3.51.9

अप्-तूर्ये । मरुतः । आपिः । एषः । अमन्दन् । इन्द्रम् । अनु । दाति-वाराः । तेभिः । साकम् । पिबतु । वृत्र-खादः । सुतम् । सोमम् । दाशुषः । स्वे । सध-स्थे

3.51.10

इदम् । हि । अनु । ओजसा । सुतम् । राधानाम् । पते । पिब । तु । अस्य । गिर्वणः

3.51.11

यः । ते । अनु । स्वधाम् । असत् । सुते । नि । यच्छ । तन्वम् । सः । त्वा । ममत्तु । सोम्यम्

3.51.12

प्र । ते । अश्नोतु । कुक्ष्योः । प्र । इन्द्र । ब्रह्मणा । शिरः । प्र । बाहू इति । शूर । राधसे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc