भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.50

3.50.1

॥13॥.
-र्व्_3:3।14-
(र्व्_3,50)
इन्द्रः । स्वाहा । पिबतु । यस्य । सोमः । आगत्य । तुम्रः । वृषभः । मरुत्वान् । आ । उरु-व्यचाः । पृणताम् । एभिः । अन्नैः । आ । अस्य । हविः । तन्वः । कामम् । ऋध्याः

3.50.2

आ । ते । सपर्यू इति । जवसे । युनज्मि । ययोः । अनु । प्र-दिवः । श्रुष्टिम् । आवः । इह । त्वा । धेयुः । हरयः । सु-शिप्र । पिब । तु । अस्य । सु-सुतस्य । चारोः

3.50.3

गोभिः । मिमिक्षुम् । दधिरे । सु-पारम् । इन्द्रम् । ज्यैष्ठ्याय । धायसे । गृणानाः । मन्दानः । सोमम् । पपि-वान् । ऋजीषिन् । सम् । अस्मभ्यम् । पुरुधा । गाः । इषण्य

3.50.4

इमम् । कामम् । मन्दय । गोभिः । अश्वैः । चन्द्र-वता । राधसा । पप्रथः । च । स्वः-यवः । मति-भिः । तुभ्यम् । विप्राः । इन्द्राय । वाहः । कुशिकासः । अक्रन्

3.50.5

शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc