ऋग्वेदसंहिता, पदपाठ · अध्याय 3.49
॥12॥.
-र्व्_3:3।13-
(र्व्_3,49)
शंसा । महाम् । इन्द्रम् । यस्मिन् । विश्वाः । आ । कृष्टयः । सोम-पाः । कामम् । अव्यन् । यम् । सु-क्रतुम् । धिषणे । विभ्व-तष्टम् । घनम् । वृत्राणाम् । जनयन्त । देवाः
यम् । नु । नकिः । पृतनासु । स्व-राजम् । द्विता । तरति । नृ-तमम् । हरि-स्थाम् । इन-तमः । सत्व-भिः । यः । ह । शूषैः । पृथु-ज्रयाः । अमिनात् । आयुः । दस्योः
सह-वा । पृत्-सु । तरणिः । न । अर्वा । वि-आनशी इति । रोदसी इति । मेहनावान् । भगः । न । कारे । हव्यः । मतीनाम् । पिताइव । चारुः । सु-हवः । वयः-धाः
धर्ता । दिवः । रजसः । पृष्टः । ऊर्ध्वः । रथः । न । वायुः । वसु-भिः । नियुत्वान् । क्षपाम् । वस्ता । जनिता । सूर्यस्य । वि-भक्ता । भागम् । धिषणाइव । वाजम्
शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0