ऋग्वेदसंहिता, पदपाठ · अध्याय 3.48
॥11॥.
-र्व्_3:3।12-
(र्व्_3,48)
सद्यः । ह । जतः । वृषभः । कनीनः । प्र-भर्तुम् । आवत् । अन्धसः । सुतस्य । साधोः । पिब । प्रति-कामम् । यथा । ते । रस-आशिरः । प्रथमम् । सोम्यस्य
यत् । जायथाः । तत् । अहः । अस्य । कामे । अंशोः । पीयूषम् । अपिबः । गिरि-स्थाम् । तम् । ते । माता । परि । योषा । जनित्री । महः । पितुः । दमे । आ । असिञ्चत् । अग्रे
उप-स्थाय । मातरम् । अन्नम् । ऐट । तिग्मम् । अपश्यत् । अभि । सोमम् । ऊधः । प्र-यवयन् । अचरत् । गृत्सः । अन्यान् । महानि । चक्रे । पुरुध-प्रतीकः
उग्रः । तुराषाट् । अभिभूति-ओजाः । यथावशम् । तन्वम् । चक्रे । एषः । त्वष्टारम् । इन्द्रः । जनुषा । अभि-भूय । आमुष्य । सोमम् । अपिबत् । चमूषु
शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0