ऋग्वेदसंहिता, पदपाठ · अध्याय 3.43
॥6॥.
-र्व्_3:3।7-
(र्व्_3,43)
आ । याहि । अर्वाङ् । उप । वन्धुरे--स्थाः । तव । इत् । अनु । प्र-दिवः । सोम-पेयम् । प्रिया । सखाया । वि । मुच । उप । बर्हिः । त्वाम् । इमे । हव्य-वाहः । हवन्ते
आ । याहि । पूर्वीः । अति । चर्षणीः । आ । अर्यः । आशिषः । उप । नः । हरि-भ्याम् । इमाः । हि । त्वा । मतयः । स्तोम-तष्टाः । इन्द्र । हवन्ते । सख्यम् । जुषाणाः
आ । नः । यज्ञम् । नमः-वृधम् । स-जोषाः । इन्द्र । देव । हरि-भिः । याहि । तूयम् । अहम् । हि । त्वा । मति-भिः । जोहवीमि । घृत-प्रयाः । सध-मादे । मधूनाम्
आ । च । त्वाम् । एता । वृषणा । वहातः । हरी इति । सखाया । सु-धुरा । सु-अङ्गा । धानावत् । इन्द्रः । सवनम् । जुषाणः । सखा । सख्युः । शृणवत् । वन्दनानि
कुवित् । मा । गोपाम् । करसे । जनस्य । कुवित् । राजानम् । मघ-वन् । ऋजीषिन् । कुवित् । मा । ऋषिम् । पपि-वांसम् । सुतस्य । कुवित् । मे । वस्वः । अमृतस्य । शिक्षाः
आ । त्वा । बृहन्तः । हरयः । युजानाः । अर्वाक् । इन्द्र । सध-मादः । वहन्तु । प्र । ये । द्विता । दिवः । ऋञ्जन्ति । आताः । सु-सम्मृष्टासः । वृषभस्य । मूराः
इन्द्र । पिब । वृष-धूतस्य । वृष्णः । आ । यम् । ते । श्येनः । उशते । जभार । यस्य । मदे । च्यावयसि । प्र । कृष्टीः । यस्य । मदे । अप । गोत्रा । ववर्थ
शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0