ऋग्वेदसंहिता, पदपाठ · अध्याय 3.42
॥4॥.
-र्व्_3:3।5-
(र्व्_3,42)
उप । नः । सुतम् । आ । गहि । सोमम् । इन्द्र । गो--आशिरम् । हरि-भ्याम् । यः । ते । अस्म-युः
तम् । इन्द्र । मदम् । आ । गहि बर्हिः-स्थाम् । ग्राव-भिः । सुतम् । कुवित् । नु । अस्य । तृष्णवः
इन्द्रम् । इत्था । गिरः । मम । अच्छ । अगुः । इषिताः । इतः । आवृते । सोम-पीतये
इन्द्रम् । सोमस्य । पीतये । स्तोमैः । इह । हवामहे । उक्थेभिः । कुवित् । आगमत्
इन्द्र । सोमाः । सुताः । इमे । तान् । दधिष्व । शतक्रतो इतिशत-क्रतो । जठरे । वाजिनीवसो इतिवाजिनी-वसो
॥5॥.
-र्व्_3:3।6-
विद्म । हि । त्वा । धनम्-जयम् । वाजेषु । दधृषम् । कवे । अध । ते । सुम्नम् । ईमहे
इमम् । इन्द्र । गो--आशिरम् । यव-आशिरम् । च । नः । पिब । आगत्य । वृष-भिः । सुतम्
तुभ्य । इत् । इन्द्र । स्वे । ओक्ये । सोमम् । चोदामि । पीतये । एषः । ररन्तु । ते । हृदि
त्वाम् । सुतस्य । पीतये । प्रत्नम् । इन्द्र । हवामहे । कुशिकासः । अवस्यवः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0