ऋग्वेदसंहिता, पदपाठ · अध्याय 3.44
॥7॥.
-र्व्_3:3।8-
(र्व्_3,44)
अयम् । ते । अस्तु । हर्यतः । सोमः । आ । हरि-भिः । सुतः । जुषाणः । इन्द्र । हरि-भिः । नः । आ । गहि । आ । तिष्ठ । हरितम् । रथम्
हर्यन् । उषसम् । अर्चयः । सूर्यम् । हर्यन् । अरोचयः । विद्वान् । चिकित्वान् । हरि-अश्व । वर्धसे । इन्द्र । विश्वा । अभि । श्रियः
द्याम् । इन्द्रः । हरि-धायसम् । पृथिवीम् । हरि-वर्पसम् । अधारयत् । हरि तोः । भूरि । भोजनम् । ययोः । अन्तः । हरिः । चरत्
जज्ञानः । हरितः । वृषा । विश्वम् । आ । भाति । रोचनम् । हरि-अश्वः । हरितम् । धत्ते । आयुधम् । आ । वज्रम् । बाह्वोः । हरिम्
इन्द्रः । हर्यन्तम् । अर्जुनम् । वज्रम् । शुक्रैः । अभि-वृतम् । अप । अवृणोत् । हरि-भिः । अद्रि-भिः । सुतम् । उत् । गाः । हरि-भिः । आजत
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0