ऋग्वेदसंहिता, पदपाठ · अध्याय 3.4
॥21॥.
-र्व्_2:8।22-
(र्व्_3,4)
समित्-समित् । सु-मनाः । बोधि । अस्मे इति । शुचाशुचा । सु-मतिम् । रासि । वस्वः । आ । देव । देवान् । यजथाय । वक्षि । सखा । सखीन् । सु-मनाः । यक्षि । अग्ने
यम् । देवासः । त्रिः । अहन् । आयजन्ते । दिवे--दिवे । वरुणः । मित्रः । अग्निः । सः । इमम् । यज्ञम् । मधु-मन्तम् । कृधि । नः । तनू-नपात् । घृत-योनिम् । विधन्तम्
प्र । दीधितिः । विश्व-वारा । जिगाति । होतारम् । इळः । प्रथमम् । यजध्यै । अच्छ । नमः-भिः । वृषभम् । वन्दध्यै । सः । देवान् । यक्षत् । इषितः । यजीयान्
ऊर्ध्वः । वाम् । गातुः । अध्वरे । अकारि । ऊर्ध्वा । शोचींषि । प्रस्थिता । रजांसि । दिवः । वा । नाभा । नि । असादि । होता । स्तृणीमहि । देव-व्यचाः । वि । बर्हिः
सप्त । होत्राणि । मनसा । वृणानाः । इन्वन्तः । विश्वम् । प्रति । यन् । ऋतेन । नृ-पेशसः । विदथेषु । प्र । जाताः । अभि । इमम् । यज्ञम् । वि । चरन्त । पूर्वीः
॥22॥.
-र्व्_2:8।23-
आ । भन्दमानेइति । उषसौ । उपाके इति । उत । स्मयेतेइति । तन्वा । विरूपेइतिवि-रूपे । यथा । नः । मित्रः । वरुणः । जुजोषत् । इन्द्रः । मरुत्वान् । उत । वा । महः-भिः
दैव्या । होतारा । प्रथमा । नि । ऋञ्जे । सप्त । पृक्षासः । स्वधया । मदन्ति । ऋतम् । शंसन्तः । ऋतम् । इत् । ते । आहुः । अनु । व्रतम् । व्रत-पाः । दीध्यानाः
आ । भारती । भारतीभिः । स-जोषाः । इळाः । देवैः । मनुष्येभिः । अग्निः । सरस्वती । सारस्वतेभिः । अर्वाक् । तिस्रः । देवीः । बर्हिः । आ । इदम् । सदन्तु
तत् । नः । तुरीपम् । अध । पोषयित्नु । देव । त्वष्टः । वि । रराणः । स्यस्वेति स्यस्व । यतः । वीरः । कर्मण्यः । सु-दक्षः । युक्त-ग्रावा । जायते । देव-कामः
वनस्पते । अव । सृज । उप । देवान् । अग्निः । हविः । शमिता । सूदयाति । सः । इत् । ओं इति । होता । सत्य-तरः । यजाति । यथा । देवानाम् । जनिमानि । वेद
आ । याहि । अग्ने । सम्-इधानः । अर्वाङ् । इन्द्रेण । देवैः । स-रथम् । तुरेभिः । बर्हिः । नः । आस्ताम् । अदितिः । सु-पुत्रा । स्वाहा । देवाः । अमृताः । मादयन्ताम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0