ऋग्वेदसंहिता, पदपाठ · अध्याय 3.5
॥23॥.
-र्व्_2:8।24-
(र्व्_3,5)
प्रति । अग्निः । उषसः । चेकितानः । अबोधि । विप्रः । पद-वीः । कवीनाम् । पृथु-पाजाः । देवयत्-भिः । समिद्धः । अप । द्वारा । तमसः । वह्निः । आवर् इत्य् आवः
प्र । इत् । ओं इति । अग्निः । ववृधे । स्तोमेभिः । गीः-भिः । स्तोतॄणाम् । नमस्यः । उक्थैः । पूर्वीः । ऋतस्य । सम्-दृशः । चकानः । सम् । दूतः । अद्यौत् । उषसः । वि-रोके
अधायि । अग्निः । मानुषीषु । विक्षु । अपाम् । गर्भः । मित्रः । ऋतेन । साधन् । आ । हिर्यतः । यजतः । सानु । अस्थात् । अभूत् । ओं इति । विप्रः । हव्यः । मतीनाम्
मित्रः । अग्निः । भवति । यत् । सम्-इद्धः । मित्रः । होता । वरुणः । जत-वेदाः । मित्रः । अध्वर्युः । इषिरः । दमूनाः । मित्रः । सिन्धूनाम् । उत । पर्वतानाम्
पाति । प्रियम् । रिपः । अग्रम् । पदम् । वेः । पाति । यह्वः । चरणम् । सूर्यस्य । पाति । नाभा । सप्त-शीर्षाणाम् । अग्निः । पाति । देवानाम् । उप-मादम् । ऋष्वः
॥24॥.
-र्व्_2:8।25-
ऋभुः । चक्रे । ईड्यम् । चारु । नाम । विश्वानि । देवः । वयुनानि । विद्वान् । समस्य । चर्म । घृत-वत् पदम् । वेः । तत् । इत् । अग्निः । रक्षति । अप्र-युच्छन्
आ । योनिम् । अग्निः । घृत-वन्तम् । अस्थात् । पृथु-प्रगानम् । उशन्तम् । उशानः । दीद्यानः । शुचिः । ऋष्वः । पावकः । पुनः-पुनः । मातरा । नव्यसी इति । करितिकः
सद्यः । जातः । ओषधीभिः । ववक्षे । यदि । वर्धन्ति । प्र-स्वः । घृतेन । आपः-इव । प्र-वता । शुम्भमानाः । उरुष्यत् । अग्निः । पित्रोः । उप-स्थे
उत् । ऊआम् इति । स्तुतः । सम्-इधा । यह्वः । अद्यौत् । वर्ष्मन् । दिवः । अधि । नाभा । पृथिव्याः । मित्रः । अग्निः । ईड्यः । मातरिश्वा । आ । दूतः । वक्षत् । यजथाय । देवान्
उत् । अस्तम्भीत् । सम्-इधा । नाकम् । ऋष्वः । अग्निः । भवन् । उत्-तमः । रोचनानाम् । यदि । भृगु-भ्यः । परि । मातरिश्वा । गुहा । सन्तम् । हव्य-वाहम् । सम्-ईधे
इळाम् । अग्ने । पुरु-दंसम् । सनिम् । गोः । शश्वत्-तमम् । हवमानाय । साध । स्यात् । नः । सूनुः । तनयः । विजावा । अग्ने । सा । ते । सु-मतिः । भूतु । अस्मे इति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0