ऋग्वेदसंहिता, पदपाठ · अध्याय 3.3
॥19॥.
-र्व्_2:8।20-
(र्व्_3,3)
वैश्वानराय । पृथु-पाजसे । विपः । रत्ना । विधन्त । धरुणेषु । गातवे । अग्निः । हि । देवान् । अमृतः । दुवस्यति । अथ । धर्माणि । सनता । न । दूदुषत्
अन्तः । दूतः । रोदसी इति । दस्मः । ईयते । होता । नि-सत्तः । मनुषः । पुरः-हितः । क्षयम् । बृहन्तम् । परि । भूषति । द्यु-भिः । देवेभिः । अग्निः । इषितः । धियावसुः
केतुम् । यज्ञानाम् । विदथस्य । साधनम् । विप्रासः । अग्निम् । महयन्त । चित्ति-भिः । अपांसि । यस्मिन् । अधि । सम्-दधुः । गिरः । तस्मिन् । सुम्नानि । यजमानः । आ । चके
पिता । यज्ञानाम् । असुरः । विपः-चिताम् । वि-मानम् । अग्निः । वयुनम् । च । वाघताम् । आ । विवेश । रोदसी इति । भूरि-वर्पसा । पुरु-प्रियः । भन्दते । धाम-भिः । कविः
चन्द्रम् । अग्निम् । चन्द्र-रथम् । हरि-व्रतम् । वैश्वानरम् । अप्सु-सदम् । स्वः-विदम् । वि-गाहम् । तूर्णिम् । तविषीभिः । आवृतम् । भूर्णिम् । देवासः । इह । सु-श्रियम् । दधुः
॥20॥.
-र्व्_2:8।21-
अग्निः । देवेभिः । मनुषः । च । जन्तु-भिः । तन्वानः । यज्ञम् । पुरु-पेशसम् । धिया । रथीः । अन्तः । ईयते । साधदिष्टि-भिः । जीरः । दमूनाः । अभिशस्ति-चातनः
अग्ने । जरस्व । सु-अपत्ये । आयुनि । ऊर्जा । पिन्वस्व । सम् । इषः । दिदीहि । नः । वयांसि । जिन्व । बृहतः । च । जागृवे । उशिक् । देवानाम् । असि । सु-क्रतुः । विपाम्
विश्पतिम् । यह्वम् । अतिथिम् । नरः । सदा । यन्तारम् । धीनाम् । उशिजम् । च । वाघताम् । अध्वराणाम् । चेतनम् । जात-वेदसम् । प्र । शंसन्ति । नमसा । जूति-भिः । वृधे
विभावा । देवः । सु-रणः । परि । क्षितीः । अग्निः । बभूव । शवसा । सुमत्-रथः । तस्य । व्रतानि । भूरि-पोषिणः । वयम् । उप । भूषेम । दमे । आ । सुवृक्ति-भिः
वैश्वानर । तव । धामानि । आ । चक्रे । येभिः । स्वः-वित् । अभवः । वि-चक्षण । जातः । आ । अपृणः । भुवनानि । रोदसी इति । अग्ने । ता । विश्वा । परि-भूः । असि । त्मना
वैश्वानरस्य । दंसनाभ्यः । बृहत् । अरिणात् । एकः । सु-अपस्यया । कविः । उभा । पितरा । महयन् । अजायत । अग्निः । द्यावापृथिवी इति । भूरि-रेतसा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0