भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.39

3.39.1

॥24॥.
-र्व्_3:2।25-
(र्व्_3,39)
इन्द्रम् । मतिः । हृदः । आ । वच्यमाना । अच्छ । पतिम् । स्तोम-तष्टा । जिगाति । या । जागृविः । विदथे । शस्यमाना । इन्द्र । यत् । ते । जायते । विद्धि । तस्य

3.39.2

दिवः । चित् । आ । पूर्व्या । जायमाना । वि । जागृविः । विदथेशस्यमाना । भद्रा । वस्त्राणि । अर्जुना । वसाना । सा । इयम् । अस्मे इति । सन-जा । पित्र्या । धीः

3.39.3

यमा । चित् । अत्र । यम-सूः । असूत । जिह्वाया । अग्रम् । पतत् । आ । हि । अस्थात् । वपूंषि । जाता । मिथुना । सचेतेइति । तमः-हना । तपुषः । बुध्ने । आइता

3.39.4

नकिः । एषाम् । निन्दिता । मर्त्येषु । ये । अस्माकम् । पितरः । गोषु । योधाः । इन्द्रः । एषाम् । दृंहिता । माहिन-वान् । उत् । गोत्राणि । ससृजे । दंसनावान्

3.39.5

सखा । ह । यत्र । सखि-भिः । नव-ग्वैः । अभि-ज्ञु । आ । सत्व-भिः । गाः । अनु-ग्मन् । सत्यम् । तत् । इन्द्रः । दश-भिः । दश-ग्वैः । सूर्यम् । विवेद । तमसि । क्षियन्तम्

3.39.6

॥25॥.
-र्व्_3:2।26-
इन्द्रः । मधु । सम्-भृतम् । उस्रियायाम् । पत्-वत् । विवेद । शफ-वत् । नमे । गोः । गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्-सु । हस्ते । दधे । दक्षिणे । दक्षिण-वान्

3.39.7

ज्योतिः । वृणीत । तमसः । वि-जानन् । आरे । स्यम । दुः-इतात् । अभीके । इमाः । गिरः । सोम-पाः । सोम-वृद्ध । जुषस्व । इन्द्र । पुरु-तमस्य । कारोः

3.39.8

ज्योतिः । यज्ञाय । रोदसी इति । अनु । स्यात् । आरे । स्याम । दुः-इतस्य । भूरेः । भूरि । चित् । हि । तुजतः । मर्त्यस्य । सु-पारासः । वसवः । बर्हणावत्

3.39.9

शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc