ऋग्वेदसंहिता, पदपाठ · अध्याय 3.38
॥22॥.
-र्व्_3:2।23-
(र्व्_3,38)
अभि । तष्टाइव । दीधय । मनीषाम् । अत्यः । न । वाजी । सु-धुरः । जिहानः । अभ् इ । प्रियाणि । मर्मृशत् । पराणि । कवीन् । इच्छामि । सम्-दृशे । सु-मेधाः
इना । उत । पृच्छ । जनिम । कवीनाम् । मनः-धृतः । सु-कृतः । तक्षत । द्याम् । इमाः । ओं इति । ते । प्र-न्यः । वर्धमानाः । मनः-वाताः । अध । नु । धर्मणि । ग्मन्
नि । सीम् । इत् । अत्र । गुह्या । दधानाः । उत । क्षत्राय । रोदसी इति । सम् । अञ्जन् । सम् । मात्राभिः । ममिरे । येमुः । उर्वी इति । अन्तः । मही । समृतेइतिसम्-ऋते । धायसे । धुः
आतिष्ठन्तम् । परि । विश्वे । अभूषन् । श्रियः । वसानः । चरति । स्व-रोचिः । महत् । तत् । वृष्णः । असुरस्य । नाम । आ । विश्व-रूपः । अमृतानि । तस्थौ
असूत । पूर्वः । वृषभः । ज्यायान् । इमाः । अस्य । शुरुधः । सन्ति । पूर्वीः । द् इवः । नपाता । विदथस्य । धीभिः । क्षत्रम् । राजाना । प्र-दिवः । दधाथेइति
॥23॥.
-र्व्_3:2।24-
त्रीणि । राजाना । विदथे । पुरूणि । परि । विश्वानि । भूषथः । सदांसि । अपश्यम् । अत्र । मनसा । जगन्वान् । व्रते । गन्धर्वान् । अपि । वायु-केशान्
तत् । इत् । नु । अस्य । वृषभस्य । धेनोः । आ । नाम-भिः । ममिरे । सक्म्यम् । गोः । अन्यत्-अन्यत् । असुर्यम् । वसानाः । नि । मायिनः । ममिरे । रूपम् । अस्मिन्
अत् । इत् । नु । अस्य । सवितुः । नकिः । मे । हिरण्ययीम् । अमतिम् । याम् । अशिश्रेत् । आ । सु-स्तुती । रोदसी इति । विश्वमिन्वे इतिविश्वम्-इन्वे । अपि-इव । योषा । जनिमानि । वव्रे
युवम् । प्रत्नस्य । साधथः । महः । यत् । दैवी । स्वस्तिः । परि । णः । स्यातम् । गोपाजिह्वस्य । तस्थुषः । वि-रूपा । विश्वे । पश्यन्ति । मायिनः । कृतानि
शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0