ऋग्वेदसंहिता, पदपाठ · अध्याय 3.36
॥18॥.
-र्व्_3:2।19-
(र्व्_3,36)
इमाम् । ओं इति । सु । प्र-भृतिम् । सातये । धाः । शश्वत्-शश्वत् । ऊति-भिः । यादमानः । सुते--सुते । ववृधे । वर्धनेभिः । यः । कर्म-भिः । महत्-भिः । सु-श्रुतः । भूत्
इन्द्राय । सोमाः । प्र-दिवः । विदानाः । ऋभुः । येभिः । वृष-पर्वा । वि-हायाः । प्र-यम्यमानान् । प्रति । सु । गृभाय । इन्द्र । पिब । वृष-धूतस्य । वृष्णः
पिब । वर्धस्व । तव । घ । सुतासः । इन्द्र । सोमासः । प्रथमाः । उत । इमे । यथा । अपिबः । पूर्व्यान् । इन्द्र । सोमान् । एव । पाहि । पन्यः । अद्य । नवीयान्
महान् । अमत्रः । वृजने । वि-रप्शी । उग्रम् । शवः । पत्यते । धृष्णु । ओजः । न । अह । विव्याच । पृथिवी । चन । एनम् । यत् । सोमासः । हरि-अश्वम् । अमन्दन्
महान् । उग्रः । ववृधे । वीर्याय । सम्-आचक्रे । वृषभः । काव्येन । इन्द्रः । भगः । वाज-दाः । अस्य । गावः । प्र । जयन्ते । दक्षिणाः । अस्य । पूर्वीः
॥19॥.
-र्व्_3:2।20-
प्र । यत् । सिन्धवः । प्र-सवम् । यथा । आयन् । आपः । समुद्रम् । रथ्याइव । जग्मुः । अतः । चित् । इन्द्रः । सदसः । वरीयान् । यत् । ईम् । सोमः । पृणति । दुग्धः । अंशुः
समुद्रेण । सिन्धवः । यादमानाः । इन्द्राय । सोमम् । सुषुतम् । भरन्तः । अंशुम् । दुहन्ति । हस्तिनः । भरित्रैः । मध्वः । पुनन्ति । धारया । पवित्रैः
ह्रदाः-इव । कुक्षयः । सोम-धानाः । सम् । ईम् इति । विव्याच । सवना । पुरूणि । अन्ना । यत् । इन्द्रः । प्रथमा । वि । आश । वृत्रम् । जघन्वान् । अवृणीत । सोमम्
आ । तु । भर । माकिः । एतत् । परि । स्थात् । विद्म । हि । त्वा । वसु-पतिम् । वसूनाम् । इन्द्र । यत् । ते । माहिनम् । दत्रम् । अस्ति । अस्मभ्यम् । तत् । हरि-अश्व । प्र । यन्ध् इ
अस्मे इति । प्र । यन्धि । मघ-वन् । ऋजीषिन् । इन्द्र । रायः । विश्व-वारस्य । भूरेः । अस्मे इति । शतम् । शरदः । जीवसे । धाः । अस्मे इति । वीरान् । शश्वतः । इन्द्र । शिप्रिन्
शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0