ऋग्वेदसंहिता, पदपाठ · अध्याय 3.35
॥16॥.
-र्व्_3:2।17-
(र्व्_3,35)
तिष्ठ । हरी इति । रथे । आ । युज्यमाना । याहि । वायुः । न । नि-युतः । नः । अच्छ । पिबासि । अन्धः । अभि-सृष्टः । अस्मे इति । इन्द्र । स्वाहा । ररिम । ते । मदाय
उप । अजिरा । पुरु-हूताय । सप्ती इति । हरी इति । रथस्य । धूः-सु । आ । युनज्मि । द्रवत् । यथा । सम्-भृतम् । विश्वतः । चित् । उप । इमम् । यज्ञम् । आ । वहातः । इन्द्रम्
उपो इति । नयस्व । वृषणा । तपुः-पा । उत । ईम् । अव । त्वम् । वृषभ । स्वधावः । ग्रसेताम् । अश्वा । वि । मुच । इह । शोणा । दिवे--दिवे । स-दृशीः । अद्धि । धानाः
ब्रह्मणा । ते । ब्रह्म-युजा । युनज्मि । हरी इति । सखाया । सध-मादे । आशू इति । स्थिरम् । रथम् । सुखम् । इन्द्र । अधि-तिष्ठन् । प्र-जानन् । विद्वाम् । उप । याहि । सोमम्
मा । ते । हरी इति । वृषणा । वीत-पृष्ठा । नि । रीरमन् । यजमानासः । अन्ये । अति-आयाहि । शश्वतः । वयम् । ते । अरम् । सुतेभिः । कृणवाम । सोमैः
॥17॥.
-र्व्_3:2।18-
तव । अयम् । सोमः । त्वम् । आ । इहि । अर्वाङ् । शश्वत्-तमम् । सु-मनाः । अस्य । पाहि । अस्मिन् । यज्ञे । बर्हिषि । आ । नि-सद्य । दधिष्व । इमम् । जठरे । इन्दुम् । इन्द्र
स्तीर्णम् । ते । बर्हिः । सुतः । इन्द्र । सोमः । कृताः । धानाः । अत्तवे । ते । हरि-भ्याम् । तत्-ओकसे । पुरु-शाकाय । वृष्णे । मरुत्वते । तुभ्यम् । राता । हवींषि
इमम् । नरः । पर्वताः । तुभ्यम् । आपः । सम् । इन्द्र । गोभिः । मधु-मन्तम् । अक्रन् । तस्य । आगत्य । सु-मनाः । ऋष्व । पाहि । प्र-जानन् । विद्वान् । पथ्याः । अनु । स्वाः
यान् । आ । अभजः । मरुतः । इन्द्र । सोमे । ये । त्वाम् । अवर्धन् । अभवन् । गणः । ते । तेभिः । एतम् । स-जोषाः । वावशानः । अग्नेः । पिब । जिह्वया । सोमम् । इन्द्र
इन्द्र । पिब । स्वधया । चित् । सुतस्य । अग्नेः । वा । पाहि । जिह्वया । यजत्र । अध्वर्योः । वा । प्र-यतम् । शक्र । हस्तात् । होतुः । वा । यज्ञम् । हविषः । जुषस्व
शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0