ऋग्वेदसंहिता, पदपाठ · अध्याय 3.34
॥14॥.
-र्व्_3:2।15-
(र्व्_3,34)
इन्द्रः । पूः-भित् । आ । अतिरत् । दासम् । अर्कैः । विदत्-वसुः । दयमानः । वि । शत्रून् । ब्रह्म-जूतः । तन्वा । ववृधानः । भूरि-दात्रः । आ । अपृणत् । रोदसी इति । उभे इति
मखस्य । ते । तविषस्य । प्र । जूतिम् । इयर्मि । वाचम् । अमृताय । भूषन् । इन्द्र । क्षितीनाम् । असि । मानुषीणाम् । विशाम् । दैवीनाम् । उत । पूर्व-यावा
इन्द्रः । वृत्रम् । अवृणोत् । शर्ध-नीतिः । प्र । मायिनाम् । अमिनात् । वर्प-नीतिः । अहन् । वि-अंसम् । उशधक् । वनेषु । आविः । धेनाः । अकृणोत् । राम्याणाम्
इन्द्रः । स्वः-सा । जनयन् । अहानि । जिगाय । उशिक्-भिः । पृतनाः । अभिष्टिः । प्र । अरोचयत् । मनवे । केतुम् । अह्नाम् । अविन्दत् । ज्योतिः । बृहते । रणाय
इन्द्रः । तुजः । बर्हणाः । आ । विवेश । नृ-वत् । दधानः । नर्या । पुरूणि । अचेतयत् । धियः । इमाः । जरित्रे । प्र । इमम् । वर्णम् । अतिरत् । शुक्रम् । आसाम्
॥15॥.
-र्व्_3:2।16-
महः । महानि । पनयन्ति । अस्य । इन्द्रस्य । कर्म । सु-कृता । पुरूणि । वृजनेन । वृजिनान् । सम् । पिपेष । मायाभिः । दस्यूंन् । अभिभूति-ओजाः
युधा । इन्द्रः । मह्ना । वरिवः । चकार । देवेभ्यः । सत्-पतिः । चर्षणि-प्राः । विवस्वतः । सदने । अस्य । तानि । विप्राः । उक्थेभिः । कवयः । गृणन्ति
सत्रासहम् । वरेण्यम् । सहः-दाम् । ससवांसम् । स्वः । अपः । च । देवीः । ससान । यः । पृथिवीम् । द्याम् । उत । इमाम् । इन्द्रम् । मदन्ति । अनु । धी-रणासः
ससान । अत्यान् । उत । सूर्यम् । ससान । इन्द्रः । ससान । पुरु-भोजसम् । गाम् । हिरण्ययम् । उत । भोगम् । ससान । हत्वी । दस्यून् । प्र । अयम् । वर्णम् । आवत्
इन्द्रः । ओषधीः । असनोत् । अहानि । वनस्पतीन् । असनोत् । अन्तरिक्षम् । बिभेद । वलम् । नुनुदे । वि-वाचः । अथ । अभवत् । दमिता । अभि-क्रतूनाम्
शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0