भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.31

3.31.1

॥4॥.
-र्व्_3:2।5-
(र्व्_3,31)
शासत् । वह्निः । दुहितुः । नप्त्यम् । गात् । विद्वान् । ऋतस्य । दीधितिम् । सपर्यन् । पिता । यत्र । दुहितुः । सेकम् । ऋञ्जन् । सम् । शग्म्येन । मनसा । दधन्वे

3.31.2

न । जामये । तान्वः । रिक्थम् । अरैक् । चकार । गर्भम् । सनितुः । नि-धानम् । यदि । मातरः । जनयन्त । वह्निम् । अन्यः । कर्ता । सु-कृतोः । अन्यः । ऋन्धन्

3.31.3

अग्निः । जज्ञे । जुह्वा । रेजमानः । महः । पुत्रान् । अरुषस्य । प्र-यक्षे । महान् । गर्भः । महि । आ । जातम् । एषाम् । मही । प्र-वृत् । हरि-अश्वस्य । यज्ञैः

3.31.4

अभि । जैत्रीः । असचन्त । स्पृधानम् । महि । ज्योतिः । तमसः । निः । अजानन् । तम् । जानतीः । प्रति । उत् । आयन् । उषसः । पतिः । गवाम् । अभवत् । एकः । इन्द्रः

3.31.5

वीळौ । सतीः । अभि । धीराः । अतृन्दन् । प्राचा । अहिन्वन् । मनसा । सप्त । विप्राः । विश्वाम् । अविन्दन् । पथ्याम् । ऋतस्य । प्र-जानन् । इत् । ता । नमसा । विवेश

3.31.6

॥5॥.
-र्व्_3:2।6-
विदत् । यदि । सरमा । रुग्णम् । अद्रेः । महि । पाथः । पूर्व्यम् । सध्र्यक् । करिति कः । अग्रम् । नयत् । सु-पदी । अक्षराणाम् । अच्छ । रवम् । प्रथमा । जानती । गात्

3.31.7

अगच्छत् । ओं इति । विप्र-तमः । सखि-यन् । असूदयत् । सु-कृते । गर्भम् । अद्रिः । ससान । मर्यः । युव-भिः । मखस्यन् । अथ । अभवत् । अङ्गिराः । सद्यः । अर्चन्

3.31.8

सतः-सतः । प्रति-मानम् । पुरः-भूः । विश्वा । वेद । जनिम । हन्ति । शुष्णम् । प्र । णः । दिवः । पद-वीः । गव्युः । अर्चन् । सखा । सखीन् । अमुञ्चत् । निः । अवद्यात्

3.31.9

नि । गव्यता । मनसा । सेदुः । अर्कैः । कृण्वानासः । अमृत-त्वाय । गातुम् । इदम् । चि त् । नु । सदनम् । भूरि । एषाम् । येन । मासान् । असिसासन् । ऋतेन

3.31.10

सम्-पश्यमानाः । अमदन् । अभि । स्वम् । पयः । प्रत्नस्य । रेतसः । दुघानाः । वि । रोदसी इति । अतपत् । घोषः । एषाम् । जाते । निः-स्थाम् । अदधुः । गोषु । वीरान्

3.31.11

॥6॥.
-र्व्_3:2।7-
सः । जातेभिः । वृत्र-हा । सः । इत् । ओं इति । हव्यैः । उत् । उस्रियाः । असृजत् । इन्द्रः । अर्कैः । उरूची । अस्मै । घृत-वत् । भरन्ती । मधु । स्वाद्म । दुदुहे । जेन्या । गौः

3.31.12

पित्रे । चित् । चक्रुः । सदनम् । सम् । अस्मै । महि । त्विषि-मत् । सु-कृतः । वि । हि । ख्यन् । वि-स्कभ्नन्तः । स्कम्भनेन । जनित्री इति । आसीनाः । ऊर्ध्वम् । रभसम् । वि । मिन्वन्

3.31.13

मही । यदि । धिषणा । शिश्नथे । धात् । सद्यः-वृधम् । वि-भ्वम् । रोदस्योः । गिरः । यस्मिन् । अनवद्याः । सम्-ईचीः । विश्वाः । इन्द्राय । तविषीः । अनुत्ताः

3.31.14

महि । आ । ते । सख्यम् । वश्मि । शक्तीः । आ । वृत्र-घ्ने । नि-युतः । यन्ति । पूर्वीः । महि । स्तोत्रम् । अवः । आ । अगन्म । सूरेः । अस्माकम् । सु । मघवन् । बोधि । गोपाः

3.31.15

महि । क्षेत्रम् । पुरु । चन्द्रम् । विविद्वान् । आत् । इत् । सखि-भ्यः । चरथम् । सम् । ऐरत् । इन्द्रः । नृ-भिः । अजनत् । दीद्यानः । साकम् । सूर्यम् । उषसम् । गातुम् । अग्न् इम्

3.31.16

॥7॥.
-र्व्_3:2।8-
अपः । चित् । एषः । वि-भ्वः । दमूनाः । प्र । सध्रीचीः । असृजत् । विश्व-चन्द्राः । मध्वः । पुनानाः । कवि-भिः । पवित्रैः । द्यु-भिः । हिन्वन्ति । अक्तु-भिः । धनुत्रीः

3.31.17

अनु । कृष्णे इति । वसुधिती इतिवसु-धिती । जिहातेइति । उभे इति । सूर्यस्य । मंहना । यजत्रे । परि । यत् । ते । महिमानम् । वृजध्यै । सखायः । इन्द्र । काम्याः । ऋजिप्याः

3.31.18

पतिः । भव । वृत्र-हन् । सूनृतानाम् । गिराम् । विश्व-आयुः । वृषभः । वयः-धाः । आ । नः । गहि । सख्येभिः । शिवेभिः । महान् । महीभिः । ऊति-भिः । सरण्यन्

3.31.19

तम् । अङ्गिरस्वत् । नमसा । सपर्यन् । नव्यम् । कृणोमि । सन्यसे । पुराजाम् । द्रुहः । वि । याहि । बहुलाः । अदेवीः । स्वर् इतिस्वः । च । नः । मघ-वन् । सातये । धाः

3.31.20

मिहः । पावकाः । प्र-तताः । अभूवन् । स्वस्ति । नः । पिपृहि । पारम् । आसाम् । इन्द्र । त्वम् । रथिरः । पाहि । नः । रिषः । मक्षु-मक्षु । कृणुहि । गो--जितः । नः

3.31.21

अदेदिष्ट । वृत्र-हा । गो--पतिः । गाः । अन्तरिति । कृष्णान् । अरुषैः । धाम-भिः । गात् । प्र । सूनृताः । दिशमानः । ऋतेन । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः

3.31.22

शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc