ऋग्वेदसंहिता, पदपाठ · अध्याय 3.30
॥34॥.
-र्व्_3:2।1-
(र्व्_3,30)
इच्छन्ति । त्वा । सोम्यासः । सखायः । सुन्वन्ति । सोमम् । दधति । प्रयांसि । तत् इक्षन्ते । अभि-शस्तिम् । जनानाम् । इन्द्र । त्वत् । आ । कः । चन । हि । प्र-केतः
न । ते । दूरे । परमा । चित् । रजांसि । आ । तु । प्र । याहि । हरि-वः । हरि-भ्याम् । स्थ् इराय । वृष्णे । सवना । कृता । इमा । युक्ताः । ग्रावाणः । सम्-इधाने । अग्नौ
इन्द्रः । सु-शिप्रः । मघ-वा । तरुत्रः । महाव्रातः । तुवि-कूर्मिः । ऋघावान् । यत् । उग्रः । धाः । बाधितः । मर्त्येषु । क्व । त्या । ते । वृषभ । वीर्याणि
त्वम् । हि । स्म । च्यावयन् । अच्युतानि । एकः । वृत्रा । चरसि । जिघ्नमानः । तव । द्यावापृथिवी इति । पर्वतासः । अनु । व्रताय । निमिताइव । तस्थुः
उत । अभये । पुरु-हूत । श्रवः-भिः । एकः । दृळ्हम् । अवदः । वृत्र-हा । सन् । इमे । चित् । इन्द्र । रोदसी इति । अपारे इति । यत् । सम्-गृभ्णाः । मघवन् । काशिः । इत् । ते
॥1॥.
-र्व्_3:2।2-
प्र । सु । ते । इन्द्र । प्र-वता । हरि-भ्याम् । प्र । ते । वज्रः । प्र-मृणन् । एतु । शत्रून् । जहि । प्रतीचः । अनूचः । पराचः । विश्वम् । सत्यम् । कृणुहि । विष्टम् । अस्तु
यस्मै । धायुः । अदधाः । मर्त्याय । अभक्तम् । चित् । भजते । गेह्यम् । सः । भद्रा । ते । इन्द्र । सु-मतिः । घृताची । सहस्र-दाना । पुरु-हूत । रातिः
सह-दानुम् । पुरु-हूत । क्षियन्तम् । अहस्तम् । इन्द्र । सम् । पिणक् । कुणारुम् । अभि । वृत्रम् । वर्धमानम् । पियारुम् । अपादम् । इन्द्र । तवसा । जघन्थ
नि । सामनाम् । इषिराम् । इन्द्र । भूमिम् । महीम् । अपाराम् । सदने । ससत्थ । अस्तभ्नात् । द्याम् । वृषभः । अन्तरिक्षम् । अर्षन्तु । आपः । त्वया । इह । प्र-सूताः
अलातृणः । वलः । इन्द्र । व्रजः । गोः । पुरा । हन्तोः । भयमानः । वि । आर । सु-गान् । पथः । अकृणोत् । निः-अजे । गाः । प्र । आवन् । वाणीः । पुरु-हूतम् । धमन्तीः
॥2॥.
-र्व्_3:2।3-
एकः । द्वे इति । वसुमती इतिवसु-मती । समीची इतिसम्-ईची । इन्द्रः । आ । पप्रौ । पृथिवीम् । उत । द्याम् । उत । अन्तरिक्षात् । अभि । नः । सम्-ईके । इषः । रथीः । स-युजः । शूर । वाजान्
दिशः । सूर्यः । न । मिनाति । प्र-दिष्टाः । दिवे--दिवे । हर्यश्व-प्रसूताः । सम् । यत् । आनट् । अध्वनः । आत् । इत् । अश्वैः । वि-मोचनम् । कृणुते । तत् । तु । अस्य
दिदृक्षन्ते । उषसः । यामन् । अक्तोः । विवस्वत्याः । महि । चित्रम् । अनीकम् । विश्वे । जानन्ति । महिना । यत् । आ । अगात् । इन्द्रस्य । कर्म । सु-कृता । पुरूणि
महि । ज्योतिः । नि-हितम् । वक्षणासु । आमा । पक्वम् । चरति । बिभ्रती । गौः । विश्वम् । स्वाद्म । सम्-भृतम् उस्रियायाम् । यत् । सीम् । इन्द्रः । अदधात् । भोजनाय
इन्द्र । दृह्य । याम-कोशाः । अभूवन् । यज्ञाय । शिक्ष । गृणते । सखि-भ्यः । दुः-मायवः । दुः-एवाः । मर्त्यासः । निषङ्गिणः । रिपवः । हन्त्वासः
॥3॥.
-र्व्_3:2।4-
सम् । घोषः । शृण्वे । अवमैः । अमित्रैः । जहि । नि । एषु । अशनिम् । तपिष्ठाम् । वृश्च । ईम् । अधस्तात् । वि । रुज । सहस्व । जहि । रक्षः । मघ-वन् । रन्धयस्व
उत् । वृह । रक्षः । सह-मूलम् । इन्द्र । वृश्च । मध्यम् । प्रति । अग्रम् । शृणीहि । आ । कीवतः । सललूकम् । चकर्थ । ब्रह्म-द्विषे । तपुषिम् । हेतिम् । अस्य
स्वस्तये । वाजि-भिः । च । प्रनेतरितिप्र-नेतः । सम् । यत् । महीः । इषः । आसत्सि । पूर्वीः । रायः । वन्तारः । बृहतः । स्याम । अस्मे इति । अस्तु । भगः । इन्द्र । प्रजावान्
आ । नः । भर । भगम् । इन्द्र । द्यु-मन्तम् । नि । ते । देष्णस्य । धीमहि । प्र-रेके । ऊर्वः-इव । पप्रथे । कामः । अस्मे इति । तम् । आ । पृण । वसु-पते । वसूनाम्
इमम् । कामम् । मन्दय । गो--भिः । अश्वैः । चन्द्र-वता । राधसा । पप्रथः । च । स्वः-यवः । मति-भिः । तुभ्यम् । विप्राः । इन्द्राय । वाहः । कुशिकासः । अक्रन्
आ । नः । गोत्रा । ददृर्हि । गो--पते । गाः । सम् । अस्मभ्यम् । सनयः । यन्तु । वाजाः । दिवक्षाः । असि । वृषभ । सत्य-शुष्मः । अस्मभ्यम् । सु । मघ-वन् । बोधि । गो--दाः
शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0