ऋग्वेदसंहिता, पदपाठ · अध्याय 3.32
॥8॥.
-र्व्_3:2।9-
(र्व्_3,32)
इन्द्र । सोमम् । सोम-पते । पिब । इमम् । माध्यन्दिनम् । सवनम् । चारु । यत् । ते । प्र-प्रुथ्य । शिप्रेइति । मघ-वन् । ऋजीषिन् । वि-मुच्य । हरी इति । इह । मादयस्व
गो--आशिरम् । मन्थिनम् । इन्द्र । शुक्रम् । पिब । सोमम् । ररिम । ते । मदाय । ब्रह्म-कृता । मारुतेन । गणेन । स-जोषाः । रुद्रैः । तृपत् । आ । वृषस्व
ये । ते । शुष्मम् । ये । तविषीम् । अवर्धन् । अर्चन्तः । इन्द्र । मरुतः । ते । ओजः । माध्यन्दिने । सवने । वज्र-हस्त । पिब । रुद्रेभिः । स-गणः । सु-शिप्र
ते । इत् । नु । अस्य । मधु-मत् । विविप्रे । इन्द्रस्य । शर्धः । मरुतः । ये । आसन् । येभिः । वृत्रस्य । इषितः । विवेद । अमर्मणः । मन्यमानस्य । मर्म
मनुष्वत् । इन्द्र । सवनम् । जुषाणः । पिब । सोमम् । शश्वते । वीर्याय । सः । आ । ववृत्स्व । हरि-अश्व । यज्ञैः । सरण्यु-भिः । अपः । अर्णा । सिसर्षि
॥9॥.
-र्व्_3:2।10-
त्वम् । अपः । यत् । ह । वृत्रम् । जघन्वान् । अत्यान्-इव । प्र । असृजः । सर्तवै । आजौ । शयानम् । इन्द्र । चरता । वधेन । वव्रि-वांसम् । परि । देवीः । अदेवम्
यजामः । इत् । नमसा । वृद्धम् । इन्द्रम् । बृहन्तम् । ऋष्वम् । अजरम् । युवानम् । यस्य । प्रिये । ममतुः । यज्ञियस्य । न । रोदसी इति । महिमानम् । ममातेइति
इन्द्रस्य । कर्म । सु-कृता । पुरूणि । व्रतानि । देवाः । न । मिनन्ति । विश्वे । दाधार । यः । पृथिवीम् । द्याम् । उत । इमाम् । जजान । सूर्यम् । उषसम् । सु-दंसाः
अद्रोघ । सत्यम् । तव । तत् । महि-त्वम् । सद्यः । यत् । जातः । अपिबः । ह । सोमम् । न । द्यावः । इन्द्र । तवसः । ते । ओजः । न । अहा । न । मासाः । शरदः । वरन्त
त्वम् । सद्यः । अपिबः । जतः । इन्द्र । मदाय । सोमम् । परमे । वि-ओमन् । यत् । ह । द्यावापृथिवी इति । आ । अविवेशीः । अथ । अभवः । पूर्व्यः । कारु-धायाः
॥10॥.
-र्व्_3:2।11-
अहन् । अहिम् । परि-शयानम् । अर्णः । ओजायमानम् । तुवि-जात । तव्यान् । न । ते । महि-त्वम् । अनु । भूत् । अध । द्यौः । यत् । अन्यया । स्फिग्या । क्षाम् । अवस्थाः
यज्ञः । हि । ते । इन्द्र । वर्धनः । भूत् । उत । प्रियः । सुत-सोमः । मियेधः । यज्ञेन । यज्ञम् । अव । यज्ञियः । सन् । यज्ञः । ते । वज्रम् । अहि-हत्ये । आवत्
यज्ञेन । इन्द्रम् । अवसा । आ । चक्रे । अर्वाक् । आ । एनम् । सुम्नाय । नव्यसे । ववृत्याम् । यः । स्तोमेभिः । ववृधे । पूर्व्येभिः । यः । मध्यमेभिः । उत । नूतनेभ् इः
विवेष । यत् । मा । धिषणा । जजान । स्तवै । पुरा । पार्यात् । इन्द्रम् । अह्नः । अंहसः । यत्र । पीपरत् । यथा । नः । नावाइव । यान्तम् । उभये । हवन्ते
आपूर्णः । अस्य । कलशः । स्वाहा । सेक्ताइव । कोशम् । सिसिचे । पिबध्यै । सम् । ओं इति । प्रियाः । आ । अववृत्रम् । मदाय । प्र-दक्षिणित् । अभि । सोमासः । इन्द्रम्
न । त्वा । गभीरः । पुरु-हूत । सिन्धुः । न । अद्रयः । परि । सन्तः । वरन्त । इत्था । सखि-भ्यः । इषितः । यत् । इन्द्र । आ । दृळ्हम् । चित् । अरुजः । गव्यम् । ऊर्वम्
शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृ-तमम् । वाज-सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्-सु । घ्नन्तम् । वृत्राणि । सम्-जितम् । धनानाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0