भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.2

3.2.1

॥16॥.
-र्व्_2:8।17-
(र्व्_3,2)
वैश्वानराय । धिषणाम् । ऋत-वृधे । घृतम् । न । पूतम् । अग्नये । जनामसि । द्विता । होतारम् । मनुषः । च । वाघतः । धिया । रथम् । न । कुलिशः । सम् । ऋण्वति

3.2.2

सः । रोचयत् । जनुषा । रोदसी इति । उभे इति । सः । मात्रोः । अभवत् । पुत्रः । ईड्यः । हव्य-वाट् । अग्निः । अजरः । चनः-हितः । दुः-दभः । विशाम् । अतिथिः । विभावसुः

3.2.3

क्रत्वा । दक्षस्य । तरुषः । वि-धर्मणि । देवासः । अग्निम् । जनयन्त । चित्ति-भिः । रुरुचानम् । भानुना । ज्योतिषा । महाम् । अत्यम् । न । वाजम् । सनिष्यन् । उप । ब्रुवे

3.2.4

आ । मन्द्रस्य । सनिष्यन्तः । वरेण्यम् । वृणीमहे । अह्रयम् । वाजम् । ऋग्मियम् । रातिम् । भृगाऊणाम् । उशिजम् । कवि-क्रतुम् । अग्निम् । राजन्तम् । दिव्येन । शोचिषा

3.2.5

अग्निम् । सुम्नाय । दधिरे । पुरः । जनाः । वाज-श्रवसम् । इह । वृक्त-बर्हि षः । यत-स्रुचः । सु-रुचम् । विश्व-देव्यम् । रुद्रम् । यज्ञानाम् । साधत्-इष्टि म् । अपसाम्

3.2.6

॥17॥.
-र्व्_2:8।18-
पावक-शोचे । तव । हि । क्षयम् । परि । होतः । यज्ञेषु । वृक्त-बर्हिषः । नरः । अग्ने । दुवः । इच्छमानासः । आप्यम् । उप । आसते । द्रविणम् । धेहि । तेभ्यः

3.2.7

आ । रोदसी इति । अपृणत् । आ । स्वः । महत् । जातम् । यत् । एनम् । अपसः । अधारयन् । सः । अध्वराय । परि । नीयते । कविः । अत्यः । न । वाज-सातये । चनः-हितः

3.2.8

नमस्यत । हव्य-दातिम् । सु-अध्वरम् । दुवस्यत । दभ्यम् । जात-वेदसम् । रथीः । ऋतस्य । बृहतः । वि-चर्षणिः । अग्निः । देवानाम् । अभवत् । पुरः-हितः

3.2.9

तिस्रः । यह्वस्य । सम्-इधः । परि-ज्मनः । अग्नेः । अपुनन् । उशिजः । अमृत्यवः । तासाम् । एकाम् । अदधुः । मर्त्ये । भुजम् । ओं इति । लोकम् । ओं इति । द्वे इति । उप । जामिम् । ईयतुः

3.2.10

विशाम् । कविम् । विश्पतिम् । मानुषीः । इषः । सम् । सीम् । अकृण्वन् । स्व-धितिम् । न । तेजसे । सः । उत्-वतः । नि-वतः । याति । वेविषत् । सः । गर्भम् । एषु । भुवनेषु । दीधरत्

3.2.11

॥18॥.
-र्व्_2:8।19-
सः । जिन्वते । जठरेषु । प्रजज्ञि-वान् । वृषा । चित्रेषु । नानदत् । न । सिंहः । वैश्वानरः । पृथु-पाजाः । अमर्त्यः । वसु । रत्ना । दयमानः । वि । दाशुषे

3.2.12

वैश्वानरः । प्रत्न-था । नाकम् । आ । अरुहत् । दिवः । पृष्ठम् । भन्दमानः । सुमन्म-भिः । सः । पूर्व-वत् । जनयन् । जन्तवे । धनम् । समानम् । अज्मम् । परि । एति । जागृविः

3.2.13

ऋत-वानम् । यज्ञियम् । विप्रम् । उक्थ्यम् । आ । यम् । दधे । मातरिश्वा । दिवि । क्षयम् । तम् । चित्र-यामम् । हरि-केशम् । ईमहे । सुद्-ईतिम् । अग्निम् । सु-विताय । नव्यसे

3.2.14

शुचिम् । न । यामन् । इषिरम् । स्वः-दृशम् । केतुम् । दिवः । रोचन-स्थाम् । उषः-बुधम् । अग्निम् । मूर्धानम् । दिवः । अप्रति-स्कुतम् । तम् । ईमहे । नमसा । वाजिनम् । बृहत्

3.2.15

मन्द्रम् । होतारम् । शुचिम् । अद्वयाविनम् । दमूनसम् । उक्थ्यम् । विश्व-चर्षण् इम् । रथम् । न । चित्रम् । वपुषाय । दर्शतम् । मनुः-हितम् । सदम् । इत् । रायः । ईमहे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc