ऋग्वेदसंहिता, पदपाठ · अध्याय 3.27
॥27॥.
-र्व्_3:1।28-
(र्व्_3,27)
प्र । वः । वाजाः । अभि-द्यवः । हविष्मन्तः । घृताच्या । देवान् । जिगाति । सुम्नयुः
ईळे । अग्निम् । विपः-चितम् । गिरा । यज्ञस्य । साधनम् । श्रुष्टी-वानम् । धित-वानम्
अग्ने । शकेम । ते । वयम् । यमम् । देवस्य । वाजिनः । अति । द्वेषांसि । तरेम
सम्-इध्यमानः । अध्वरे । अग्निः । पावकः । ईड्यः । शोचिः-केशः । तम् । ईमहे
पृथु-पाजाः । अमर्त्यः । घृत-निर्निक् । सु-आहुतः । अग्निः । यज्ञस्य । हव्य-वाट्
॥28॥.
-र्व्_3:1।29-
तम् । स-बाधः । यत-स्रुचः । इत्था । धिया । यज्ञ-वन्तः । आ । चक्रुः । अग्निम् । ऊतये
होता । देवः । अमर्त्यः । पुरस्तात् । एति । मायया । विदथानि । प्र-चोदयन्
वाजी । वाजेषु । धीयते । अध्वरेषु । प्र । नीयते । विप्रः । यज्ञस्य । साधनः
धिया । चक्रे । वरेण्यः । भूतानाम् । गर्भम् । आ । दधे । दक्षस्य । पितरम् । तना
नि । त्वा । दधे । वरेण्यम् । दक्षस्य । इळा । सहः-कृत । अग्ने । सु-दीतिम् । उशिजम्
॥29॥.
-र्व्_3:1।30-
अग्निम् । यन्तुरम् । अप्-तुरम् । ऋतस्य । योगे । वनुषः । विप्राः । वाजैः । सम् । इन्धते
ऊर्जः । नपातम् । अध्वरे । दीदि-वांसम् । उप । द्यवि । अग्निम् । ईळे । कवि-क्रतुम्
ईळेन्यः । नमस्यः । तिरः । तमांसि । दर्शतः । सम् । अग्निः । इध्यते । वृषा
वृषो इति । अग्निः । सम् । इध्यते । अश्वः । न । देव-वाहनः । तम् । हविष्मन्तः । ईळते
वृषणम् । त्वा । वयम् । वृषन् । वृषणः । सम् । इधीमहि । अग्ने । दीद्यतम् । बृहत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0