ऋग्वेदसंहिता, पदपाठ · अध्याय 3.26
॥25॥.
-र्व्_3:1।26-
(र्व्_3,26)
वैश्वानरम् । मनसा । अग्निम् । नि-चाय्य । हविष्मन्तः । अनु-षत्यम् । स्वः-विदम् । सु-दानुम् । देवम् । रथिरम् । वसु-यवः । गीः-भिः । रण्वम् । कुशिकासः । हवामहे
तम् । शुभ्रम् । अग्निम् । अवसे । हवामहे । वैश्वानरम् । मातरिश्वानम् । उक्थ्यम् । बृहस्पतिम् । मनुषः । देव-तातये । विप्रम् । श्रोतारम् । अतिथिम् । रघु-स्यदम्
अश्वः । न । क्रन्दन् । जनि-भिः । सम् । इध्यते । वैश्वानरः । कुशिकेभिः । युगे--युगे । सः । नः । अग्निः । सु-वीर्यम् । सु-अश्व्यम् । दधातु । रत्नम् । अमृतेषु । जागृविः
प्र । यन्तु । वाजाः । तविषीभिः । अग्नयः । शुभे । सम्-मिश्लाः । पृषतीः । अयुक्षत । बृहत्-उक्षः । मरुतः । विश्व-वेदसः । प्र । वेपयन्ति । पर्वतान् । अदाभ्याः
अग्नि-श्रियः । मरुतः । विश्व-कृष्टयः । आ । त्वेषम् । उग्रम् । अवः । ईमहे । वयम् । ते । स्वानिनः । रुद्रियाः । वर्ष-निर्निजः । सिंहाः । न । हेष-क्रतवः । सु-दानवः
॥26॥.
-र्व्_3:1।27-
व्रातम्-व्रातम् । गणम्-गणम् । सुशस्ति-भिः । अग्नेः । भामम् । मरुताम् । ओजः । ईमहे । पृषत्-अश्वासः । अनवभ्र-राधसः । गन्तारः । यज्ञम् । विदथेषु । धीराः
अग्निः । अस्मि । जन्मना । जात-वेदाः । घृतम् । मे । चक्षुः । अमृतम् । मे । आसन् । अर्कः । त्रि-धातुः । रजसः । वि-मानः । अजस्रः । घर्मः । हविः । अस्मि । नाम
त्रि-भिः । पवित्रैः । अपुपोत् । हि । अर्कम् । हृदा । मतिम् । ज्योतिः । अनु । प्र-जानन् । वर्षिष्ठम् । रत्नम् । अकृत । स्वधाभिः । आत् । इत् । द्यावापृथिवी इति । परि । अपश्यत्
शत-धारम् । उत्सम् । अक्षीयमाणम् । विपः-चितम् । पितरम् । वक्त्वानाम् । मेळिम् । मदन्तम् । पित्रोः । उप-स्थे । तम् । रोदसी इति । पिपृतम् । सत्य-वाचम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0