भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.28

3.28.1

॥30॥.
-र्व्_3:1।31-
(र्व्_3,28)
अग्ने । जुषस्व । नः । हविः । पुरोळाशम् । जात-वेदः । प्रातः-सावे । धियावसो इतिधियावसो

3.28.2

पुरोळाः । अग्ने । पचतः । तुभ्यम् । वा । घ । परि-कृतः । तम् । जुषस्व । यविष्ठ्य

3.28.3

अग्ने । वीहि । पुरोळाशम् । आहुतम् । तिरः-अह्न्यम् । सहसः । सूनुः । असि । अध्वरे । हितः

3.28.4

माध्यन्दिने । सवने । जात-वेदः । पुरोळाशम् । इह । कवे । जुषस्व । अग्ने । यह्वस्य । तव । भाग-धेयम् । न । प्र । मिनन्ति । विदथेषु । धीराः

3.28.5

अग्ने । तृतीये । सवने । हि । कानिषः । पुरोळाशम् । सहसः । सूनो इति । आहुतम् । अथ । देवेषु । अध्वरम् । विपन्यया । धाः । रत्न-वन्तम् । अमृतेषु । जागृविम्

3.28.6

अग्ने । वृधानः । आहुतिम् । पुरोळाशम् । जात-वेदः । जुषस्व । तिरः-अह्न्यम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc