ऋग्वेदसंहिता, पदपाठ · अध्याय 3.1
॥12॥.
मन्दल 3
-र्व्_2:8।13-
(र्व्_3,1)
सोमस्य । मा । तवसम् । वक्षि । अग्ने । वह्निम् । चकर्थ । विदथे । यजध्यै । देवान् । अच्छ । दीद्यत् । युञ्जे । अद्रिम् । शम्-आये । अग्ने । तन्वम् । जुषस्व
प्राञ्चम् । यज्ञम् । चकृम । वर्धताम् । गीः । समित्-भिः । अग्निम् । नमसा । दुवस्यन् । दिवः । शशासुः । विदथा । कवीनाम् । गृसाय । चित् । तवसे । गातुम् । ईषुः
मयः । दधे । मेधिरः । पूत-दक्षः । दिवः । सु-बन्धुः । जनुषा । पृथिव्याः । अविन्दन् । ओं इति । दर्शतम् । अप्-सु । अन्तः । देवासः । अग्निम् । अपसि । स्वसॄणाम्
अवर्धयन् । सु-भगम् । सप्त । यह्वीः । श्वेतम् । जज्ञानम् । अरुषम् । महि-त्वा । शिशुम् । न । जातम् । अभि । आरुः । अश्वाः । देवासः । अग्निम् । जनिमन् । वपुष्यन्
शुक्रेभिः । अङ्गैः । रजः । आततन्वान् । क्रतुम् । पुनानः । कवि-भिः । पवित्रैः । शोचिः । वसानः । परि । आयुः । अपाम् । श्रियः । मिमीते । बृहतीः । अनूनाः
॥13॥.
-र्व्_2:8।14-
वव्राज । सीम् । अनदतीः । अदब्धाः । दिवः । यह्वीः । अवसानाः । अनग्नाः । सनाः । अत्र । युवतयः । स-योनीः । एकम् । गर्भम् । दधिरे । सप्त । वाणीः
स्तीर्णाः । अस्य । सम्-हतः । विश्व-रूपा । घृतस्य । योनौ । स्रवथे । मधूनाम् । अस्थुः । अत्र । धेनवः । पिन्वमानाः । मही इति । दस्मस्य । मातरा । समीची इतिसम्-ईची
बभ्राणः । सूनो इति । सहसः । वि । अद्यौत् । दधानः । शुक्रा । रभसा । वपूंषि । श्चोतन्ति । धाराः । मधुनः । घृतस्य । वृषा । यत्र । ववृधे । काव्येन
पितुः । चित् । ऊधः । जनुषा । विवेद । वि । अस्य । धाराः । असृजत् । वि । धेनाः । गुहा । चरन्तम् । सखि-भिः । शिवेभिः । दिवः । यह्वीभिः । न । गुहा । बभूव
पितुः । च । गर्भम् । जनितुः । च । बभ्रे । पूर्वीः । एकः । अधयत् । पीप्यानाः । वृष्णे । सपत्नी इतिसपत्नी । शुचये । सबन्धू इतिस-बन्धू । उभे इति । अस्मै । मनुष्ये इति । नि । पाहि
॥14॥.
-र्व्_2:8।15-
उरौ । महान् । अनि-बाधे । ववर्ध । आपः । अग्निम् । यशसः । सम् । हि । पूर्वीः । ऋतस्य । योनौ । अशयत् । दमूनाः । जामीनाम् । अग्निः । अपसि । स्वसृॠणाम्
अक्रः । न । बभ्रिः । सम्-इथे । महीनाम् । दिदृक्षेयः । सूनवे । भाः-ऋजीकः । उत् । उस्रियाः । जनिता । यः । जजान । अपाम् । गर्भः । नृ-तमः । यह्वः । अग्निः
अपाम् । गर्भम् । दर्शतम् । ओषधीनाम् । वना । जजान । सु-भगा । वि-रूपम् । देवासः । चित् । मनसा । सम् । हि । जग्मुः । पनिष्ठम् । जातम् । तवसम् । दुवस्यन्
बृहन्तः । इत् । भानवः । भाः-ऋजीकम् । अग्निम् । सचन्त । वि-द्युतः । न । शुक्राः । गुहाइव । वृद्धम् । सदसि । स्वे । अन्तः । अपारे । ऊर्वे । अमृतम् । दुहानाः
ईळे । च । त्वा । यजमानः । हविः-भिः । ईळे । सखि-त्वम् । सु-मतिम् । नि-कामः । देवैः । अवः । मिमीहि । सम् । जरित्रे । रक्ष । च । नः । दम्ये--भिः । अनीकैः
॥15॥.
-र्व्_2:8।16-
उप-क्षेतारः । तव । सु-प्रनीते । अग्ने । विश्वानि । धन्या । दधानाः । सु-रेतसा । श्रवसा । तुञ्जमानाः । अभि । स्याम । पृतनायून् । अदेवान्
आ । देवानाम् । अभवः । केतुः । अग्ने । मन्द्रः । विश्वानि । काव्यानि । विद्वान् । प्रति । मर्तान् । अवासयः । दमूनाः । अनु । देवान् । रथिरः । यासि । साधन्
नि । दुरोणे । अमृतः । मर्त्यानाम् । राजा । ससाद । विदथानि । साधन् । घृत-प्रतीकः । उर्विया । वि । अद्यौत् । अग्निः । विश्वानि । काव्यानि । विद्वान्
आ । नः । गहि । सख्येभिः । शिवेभिः । महान् । महीभिः । ऊति-भिः । सरण्यन् । अस्मे इति । रयिम् । बहुलम् । सम्-तरुत्रम् । सु-वाचम् । भागम् । यशसम् । कृधि । नः
एता । ते । अग्ने । जनिम । सनानि । प्र । पूर्व्याय । नूतनानि । वोचम् । महान्ति । वृष्णे । सवना । कृता । इमा । जन्मन्-जन्मन् । नि-हितः । जात-वेदाः
जन्मन्-जन्मन् । नि-हितः । जात-वेदाः । विश्वामित्रेभिः । इध्यते । अजस्रः । तस्य । वयम् । सु-मतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम
इमम् । यज्ञम् । सहसावन् । त्वम् । नः । देव-त्रा । धेहि । सु-क्रतो इतिसु-क्रतो । रराणः । प्र । यंसि । होतः । बृहतीः । इषः । नः । अग्ने । महि । द्रविणम् । आ । यजस्व
इळाम् । अग्ने । पुरु-दंसम् । सनिम् । गोः । शश्वत्-तमम् । हवमानाय । साध । स्यात् । नः । सूनुः । तनयः । विजावा । अग्ने । सा । ते । सु-मतिः । भूतु । अस्मे इति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0