ऋग्वेदसंहिता, पदपाठ · अध्याय 3.17
॥16॥.
-र्व्_3:1।17-
(र्व्_3,17)
सम्-इध्यमानः । प्रथमा । अनु । धर्म । सम् । अक्तु-भिः । अज्यते । विश्व-वारः । शोचिः-केशः । घृत-निर्निक् । पावकः । सु-यज्ञः । अग्निः । यजथाय । देवान्
यथा । अयजः । होत्रम् । अग्ने । पृथिव्याः । यथा । दिवः । जात-वेदः । चिकित्वान् । एव । अनेन । हविषा । यक्षि । देवान् । मनुष्वत् । यज्ञम् । प्र । तिर । इमम् । अद्य
त्रीणि । आयूंषि । तव । जात-वेदः । तिस्रः । आजानीः । उषसः । ते । अग्ने । ताभिः । देवानाम् । अवः । यक्षि । विद्वान् । अथ । भव । यजमानाय । शम् । योः
अग्निम् । सु-दीतिम् । सु-दृशम् । गृणन्तः । नमस्यामः । त्वा । ईड्यम् । जात-वेदः । त्वाम् । दूतम् । अरतिम् । हव्य-वाहम् । देवाः । अकृण्वन् । अमृतस्य । नाभिम्
यः । त्वत् । होता । पूर्वः । अग्ने । यजीयान् । द्विता । च । सत्ता । स्वधया । च । शम्-भुः । तस्य । अनु । धर्म । प्र । यज । चिकित्वः । अथ । नः । धाः । अध्वरम् । देव-वीतौ
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0