भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.18

3.18.1

॥17॥.
-र्व्_3:1।18-
(र्व्_3,18)
भव । नः । अग्ने । सु-मनाः । उप-इतौ । सखाइव । सख्ये । पितराइव । साधुः । पुरु-द्रुहः । हि । क्षितयः । जनानाम् । प्रति । प्रतीचीः । दहतात् । अरातीः

3.18.2

तपो इति । सु । अग्ने । अन्तरान् । अमित्रान् । तप । शंसम् । अररुषः । परस्य । तपो इति । वसो इति । चिकितानः । अचित्तान् । वि । ते । तिष्ठन्ताम् । अजराः । अयासः

3.18.3

इध्मेन । अग्ने । इच्छमानः । घृतेन । जुहोमि । हव्यम् । तरसे । बलाय । यावत् । ईशे । ब्रह्मणा । वन्दमानः । इमाम् । धियम् । शत-सेयाय । देवीम्

3.18.4

उत् । शोचिषा । सहसः । पुत्र । स्तुतः । बृहत् । वयः । शशमानेषु । धेहि । रेवत् । अग्ने । विश्वामित्रेषु । शम् । योः । मर्मृज्म । ते । तन्वम् । भूरि । कृत्वः

3.18.5

कृधि । रत्नम् । सु-सनितः । धनानाम् । सः । घ । इत् । अग्ने । भवसि । यत् । समि द्धः । स्तोतुः । दुरोणे । सु-भगस्य । रेवत् । सृप्रा । करस्ना । दधिषे । वपूंषि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc