ऋग्वेदसंहिता, पदपाठ · अध्याय 3.15
॥14॥.
-र्व्_3:1।15-
(र्व्_3,15)
वि । पाजसा । पृथुना । शोशुचानः । बाधस्व । द्विषः । रक्षसः । अमीवाः । सु-शर्मणः । बृहतः । शर्मणि । स्याम् । अग्नेः । अहम् । सु-हवस्य । प्र-नीतौ
त्वम् । नः । अस्याः । उषसः । वि-उष्टौ । त्वम् । सूरे । उत्-इते । बोधि । गोपाः । जन्म-इव । नित्यम् । तनयम् । जुषस्व । स्तोमम् । मे । अग्ने । तन्वा । सु-जात
त्वम् । नृ-चक्षाः । वृषभ । अनु । पूर्वीः । कृष्णासु । अग्ने । अरुषः । वि । भाहि । वसो इति । नेषि । च । पर्षि । च । अति । अंहः । कृधि । नः । राये । उशिजः । यविष्ठ
अषाळ्हः । अग्ने । वृषभः । दिदीहि । पुरः । विश्वाः । सौभगा । सम्-जिगीवान् । यज्ञस्य । नेता । प्रथमस्य । पायोः । जात-वेदः । बृहतः । सु-प्रनीते
अच्छिद्रा । शर्म । जरितरिति । पुरूणि । देवान् । अच्छ । दीद्यानः । सु-मेधाः । रथः । न । सस्निः । अभि । वक्षि । वाजम् । अग्ने । त्वम् । रोदसी इति । नः । सुमेके इतिसु-मेके
प्र । पीपय । वृषभ । जिन्व । वाजान् । अग्ने । त्वम् । रोदसी इति । नः । सुदोघेइतिसु-दोघे । देवेभिः । देव । सु-रुचा । रुचानः । मा । नः । मर्तस्य । दुः-मतिः । परि । स्थात्
इळाम् । अग्ने । पुरु-दंसम् । सनिम् । गोः । शश्वत्-तमम् । हवमानाय । साध । स्यात् । नः । सूनुः । तनयः । विजावा । अग्ने । सा । ते । सु-मतिः । भूतु । अस्मे इति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0