ऋग्वेदसंहिता, पदपाठ · अध्याय 3.14
॥13॥.
-र्व्_3:1।14-
(र्व्_3,14)
आ । होता । मन्द्रः । वदथानि । अस्थात् । सत्यः । यज्वा । कवि-तमः । सः । वेधाः । विद्युत्-रथः । सहसः । पुत्रः । अग्निः । शोचिः-केशः । पृथिव्याम् । पाजः । अश्रेत्
अयामि । ते । नमः-उक्तिम् । जुषस्व । ऋत-वः । तुभ्यम् । चेतते । सहस्वः । विद्वान् । आ । वक्षि । विदुषः । नि । षत्सि । मध्ये । आ । बर्हिः । ऊतये । यजत्र
द्रवताम् । ते । उषसा । वाजयन्ती इति । अग्ने । वातस्य । पथ्याभिः । अच्छ । यत् । सीम् । अञ्जन्ति । पूर्व्यम् । हविः-भिः । आ । वन्धुराइव । तस्थतुः । दुरोणे
मित्रः । च । तुभ्यम् । वरुणः । सहस्वः । अग्ने । विश्वे । मरुतः । सुम्नम् । अर्चन् । यत् । शोचिषा । सहसः । पुत्र । तिष्ठाः । अभि । क्षितीः । प्रथयन् । सूर्यः । नॄन्
वयम् । ते । अद्य । ररिम । हि । कामम् । उत्तान-हस्ताः । नमसा । उप-सद्य । यजिष्ठेन । मनसा । यक्षि । देवान् । अस्रेधता । मन्मना । विप्रः । अग्ने
त्वत् । हि । पुत्र । सहसः । वि । पूर्वीः । देवस्य । यन्ति । ऊतयः । वि । वाजाः । त्वम् । देहि । सहस्रिणम् । रयिम् । नः । अद्रोघेण । वचसा । सत्यम् । अग्ने
तुभ्यम् । दक्ष । कविक्रतो इतिकवि-क्रतो । यानि । इमा । देव । मर्तासः । अध्वरे । अकर्म । त्वम् । विश्वस्य । सु-रथस्य । बोधि । सर्वम् । तत् । अग्ने । अमृत । स्वद । इह
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0