ऋग्वेदसंहिता, पदपाठ · अध्याय 3.13
॥12॥.
-र्व्_3:1।13-
(र्व्_3,13)
प्र । वः । देवाय । अग्नये । बर्हिष्ठम् । अर्च । अस्मै । गमत् । देवेभिः । आ । सः । नः । यजिष्ठः । बर्हिः । आ । सदत्
ऋत-वा । यस्य । रोदसी इति । दक्षम् । सचन्ते । ऊतयः । हविष्मन्तः । तम् । ईळते । तम् । सनिष्यन्तः । अवसे
सः । यन्ता । विप्रः । एषाम् । सः । यज्ञानाम् । अथ । हि । सः । अग्निम् । तम् । वः । दुवस्यत । दाता । यः । वनिता । मघम्
सः । नः । शर्माणि । वीतये । अग्निः । यच्छतु । शम्-तमा । यतः । नः । प्रुष्णवत् । वसु । दिवि । क्षिति-भ्यः । अप्-सु । आ
दीदि-वांसम् । अपूर्व्यम् । वस्वीभिः । अस्य । धीति-भिः । ऋक्वअणः । अग्निम् । इन्धते । होतारम् । विश्पतिम् । विशाम्
उत । नः । ब्रह्मन् । अविषः । उक्थेषु । देव-हूतमः । शम् । नः । शोच । मरुत्-वृधः । अग्ने । सहस्र-सातमः
नु । नः । रास्व । सहस्र-वत् । तोक-वत् । पुष्टि-मत् । वसु । द्युमत् । अग्ने । सु-वीर्यम् । वर्षिष्ठम् । अनुप-क्षितम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0