ऋग्वेदसंहिता, पदपाठ · अध्याय 3.12
॥10॥.
-र्व्_3:1।11-
(र्व्_3,12)
इन्द्राग्नी इति । आ । गतम् । सुतम् । गीः-भिः । नभः । वरेण्यम् । अस्य । पातम् । धिया । इषिता
इन्द्राग्नी इति । जरितुः । सचा । यज्ञः । जिगाति । चेतनः । अया । पातम् । इमम् । सुतम्
इन्द्रम् । अग्निम् । कवि-छदा । यज्ञस्य । जूत्या । वृणे । ता । सोमस्य । इह । तृम्पताम्
तोशा । वृत्र-हना । हुवे । स-जित्य्वाना । अपराजिता । इन्द्राग्नी इति । वाज-सातमा
प्र । वाम् । अर्चन्ति । उक्थिनः । नीथ-विदः । जरितारः । इन्द्राग्नी इति । इषः । आ । वृणे
॥11॥.
-र्व्_3:1।12-
इन्द्राग्नी इति । नवतिम् । पुरः । दास-पत्नीः । अधूनुतम् । साकम् । एकेन । कर्मणा
इन्द्राग्नी इति । अपसः । परि । उप । प्र । यन्ति । धीतयः । ऋतस्य । पथ्याः । अनु
इन्द्राग्नी इति । तविषाणि । वाम् । सध-स्थानि । प्रयांसि । च । युवोः । अप्-तूर्यम् । हितम्
इन्द्राग्नी इति । रोचना । दिवः । परि । वाजेषु । भूषथः । तत् । वाम् । चेति । प्र । वीर्यम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0