ऋग्वेदसंहिता, पदपाठ · अध्याय 3.11
॥8॥.
-र्व्_3:1।9-
(र्व्_3,11)
अग्निः । होता । पुरः-हितः । अध्वरस्य । वि-चर्षणिः । सः । वेद । यज्ञम् । आनुषक्
सः । हव्य-वाट् । अमर्त्यः । उशिक् । दूतः । चनः-हितः । अग्निः । धिया । सम् । ऋण्वति
अग्निः । धिया । सः । चेतति । केतुः । यज्ञस्य । पूर्व्यः । अर्थम् । हि । अस्य । तरणि
अग्निम् । सूनुम् । सन-श्रुतम् । सहसः । जात-वेदसम् । वह्निम् । देवाः । अकृण्वत
अदाभ्यः । पुरः-एता । विशाम् । अग्निः । मानुषीणाम् । तूर्णिः । रथः । सदा । नवः
॥9॥.
-र्व्_3:1।10-
साह्वान् । विश्वाः । अभि-युजः । क्रतुः । देवानाम् । अमृक्तः । अग्निः । तुविश्रवः-तमः
अभि । प्रयांसि । वाहसा । दाश्वान् । अश्नोति । मर्त्यः । क्षयम् । पावक-शोचिषः
परि । विश्वानि । सु-धिता । अग्नेः । अश्याम । मन्म-भिः । विप्रासः । जात-वेदसः
अग्ने । विश्वानि । वार्या । वाजेषु । सनिषामहे । त्वे इति । देवासः । आ । ईरिरे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0