ऋग्वेदसंहिता, पदपाठ · अध्याय 2.9
॥29॥.
-र्व्_2:6।1-
(र्व्_2,9)
नि । होता । होतृ-सदने । विदानः । त्वेषः । दीदि-वान् । असदत् । सु-दक्षः । अदब्ध-व्रतप्रमतिः । वसिष्ठः । सहस्रम्-भरः । शुचि-जिह्वः । अग्निः
त्वम् । दूतः । त्वम् । ओं इति । नः । परः-पाः । त्वम् । वस्यः । आ । वृषभ । प्र-नेता । अग्ने । तोकस्य । नः । तने । तनूनाम् । अप्र-युच्छन् । दीद्यत् । बोधि । गोपाः
विधेम । ते । परमे । जन्मन् । अग्ने । विधेम । स्तोमैः । अवरे । सध-स्थे । यस्मात् । योनेः । उत्-आरिथ । यजे । तम् । प्र । त्वे इति । हवींषि । जुहुरे । सम्-इद्धे
अग्ने । यजस्व । हविषा । यजीयान् । श्रुष्टी । देष्णम् । अभि । गृणीहि । राधः । त्वम् । ह् इ । असि । रयि-पतिः । रयीणाम् । त्वम् । शुक्रस्य । वचसः । मनोता
उभयम् । ते । न । क्षीयते । वसव्यम् । दिवे--दिवे । जायमानस्य । दस्म । कृधि । क्षु-मन्तम् । जरितारम् । अग्ने । कृधि । पतिम् । सु-अपत्यस्य । रायः
सः । एना । अनीकेन । सु-विदत्रः । अस्मे इति । यष्टा । देवान् । आयजिष्ठः । स्वस्ति । अदब्धः । गोपाः । उत । नः । परः-पाः । अग्ने । द्यु-मत् । उत । रेवत् । दिदीहि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0