ऋग्वेदसंहिता, पदपाठ · अध्याय 2.8
॥28॥.
-र्व्_2:5।29-
(र्व्_2,8)
वाजयन्-इव । नु । रथान् । योगान् । अग्नेः । उप । स्तुहि । यशः-तमस्य । मीळ्हुषः
यः । सु-नीथः । ददाशुषे। अजुर्यः । जरयन् । अरिम् । चारु-प्रतीकः । आहुतः
यः । ओं इति । श्रिया । दमेषु । आ । दोषा । उषसि । प्र-शस्यते । यस्य । व्रतम् । न । मीयते
आ । यः । स्वः । न । भानुना । चित्रः । वि-भाति । अर्चिषा । अञ्जानः । अजरैः । अभि
अत्रिम् । अनु । स्व-राज्यम् । अग्निम् । उक्थानि । ववृधुः । विश्वाः । अधि । श्रियः । दधे
अग्नेः । इन्द्रस्य । सोमस्य । देवानाम् । ऊति-भिः । वयम् । अरिष्यन्तः । सचेमहि । अभि । स्याम । पृतन्यतः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0