भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.10

2.10.1

॥1॥.
-र्व्_2:6।2-
(र्व्_2,10)
जोहूत्रः । अग्निः । प्रथमः । पिताइव । इळः । पदे । मनुषा । यत् । सम्-इद्धः । श्रियम् । वसानः । अमृतः । वि-चेताः । मर्मृजेन्यः । श्रवस्यः । सः । वाजी

2.10.2

श्रुयाः । अग्निः । चित्र-भानुः । हवम् । मे । विश्वाभिः । गीः-भिः । अमृतः । वि-चेताः । श्यावा । रथम् । वहतः । रोहिता । वा । उत । अरुषा । अह । चक्रे । वि-भृत्रः

2.10.3

उत्तानायाम् । अजनयन् । सु-सूतम् । भुवत् । अग्निः । पुरु-पेशासु । गर्भः । शिरिणायाम् । चित् । अक्तुना । महः-भिः । अपरि-वृतः । वसति । प्र-चेताः

2.10.4

जिघर्मि । अग्निम् । हविषा । घृतेन । प्रति-क्षियन्तम् । भुवनानि । विश्वा । पृथुम् । त् इरश्चा । वयसा । बृहन्तम् । व्यचिष्ठम् । अन्नैः । रभसम् । दृशानम्

2.10.5

आ । विश्वतः । प्रत्यञ्चम् । जिघर्मि । अरक्षसा । मनसा । तत् । जुषेत । मर्य-श्रीः । स्पृहयत्-वर्णः । अग्निः । न । अभि-मृशे । तन्वा । जर्भुराणः

2.10.6

ज्ञेयाः । भागम् । सहसानः । वरेण । त्वादूतासः । मनु-वत् । वदेम । अनूनम् । अग्निम् । जुह्वा । वचस्या । मधु-पृचम् । धन-साः । जोहवीमि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc