ऋग्वेदसंहिता, पदपाठ · अध्याय 2.5
॥25॥.
-र्व्_2:5।26-
(र्व्_2,5)
होता । अजनिष्ट । चेतनः । पिता । पितृ-भ्यः । ऊतये । प्र-यक्षन् । जेन्यम् । वसु । शकेम । वाजिनः । यमम्
आ । यस्मिन् । सप्त । रश्मयः । तताः । यज्ञस्य । नेतरि । मनुष्वत् । दैव्यम् । अष्टमम् । पोता । विश्वम् । तत् । इन्वति
दधन्वे । वा । यत् । ईम् । अनु । वोचत् । ब्रह्माणि । वेः । ओं इति । तत् । परि । विश्वानि । काव्या । नेमिः । चक्रम्-इव । अभवत्
साकम् । हि । शुचिना । शुचिः । प्र-शास्ता । क्रतुना । अजनि । विद्वान् । अस्य । व्रता । ध्रुवा । वयाः-इव । अनु । रोहते
ताः । अस्य । वर्णम् । आयुवः । नेष्टुः । सचन्त । धेनवः । कुवित् । तिसृ-भ्यः । आ । वरम् । स्वसारः । याः । इदम् । ययुः
यदि । मातुः । उप । स्वसा । घृतम् । भरन्ती । अस्थित । तासाम् । अध्वर्युः । आगतौ । यवः । वृष्टी-इव । मोदते
स्वः । स्वाय । धायसे । कृणुताम् । ऋत्विक् । ऋत्विजम् । स्तोमम् । यज्ञम् । च । आत् । अरम् । वनेम । ररिम । वयम्
यथा । विद्वान् । अरम् । करत् । विश्वेभ्यः । यजतेभ्यः । अयम् । अग्ने । त्वे इति । अपि । यम् । यज्ञम् । चकृम । वयम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0