भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.4

2.4.1

॥23॥.
-र्व्_2:5।24-
(र्व्_2,4)
हुवे । वः । सु-द्योत्मानम् । सु-वृक्तिम् । विशाम् । अग्निम् । अतिथिम् । सु-प्रयसम् । म् इत्रः-इव । यः । दिधिषाय्यः । भूत् । देवः । आदेवे । जने । जात-वेदाः

2.4.2

इमम् । विधन्तः । अपाम् । सध-स्थे । द्विता । अदधुः । भृगवः । विक्षु । आयोः । एषः । विश्वानि । अभि । अस्तु । भूम । देवानाम् । अग्निः । अरतिः । जीर-अश्वः

2.4.3

अग्निम् । देवासः । मानुषीषु । विक्षु । प्रियम् । धुः । क्षेष्यन्तः । न । मित्रम् । सः । दीदयत् । उशतीः । ऊर्म्याः । आ । दक्षाय्यः । यः । दास्वते । दमे । आ

2.4.4

अस्य । रण्वा । स्वस्य-इव । पुष्टिः । सम्-दृष्टिः । अस्य । हियानस्य । धक्षोः । वि । यः । भरिभ्रत् । ओषधीषु । जिह्वाम् । अत्यः । न । रथ्यः । दोधवीति । वारान्

2.4.5

आ । यत् । मे । अभ्वम् । वनदः । पनन्त । उशिक्-भ्यः । न । अमिमीत । वर्णम् । सः । चित्रेण । चिकिते । रम्-सु । भासा । जुजुर्वान् । यः । मुहुः । आ । युवा । भूत्

2.4.6

॥24॥.
-र्व्_2:5।25-
आ । यः । वना । ततृषाणः । न । भाति । वाः । न । पथा । रथ्याइव । स्वानीत् । कृष्ण-अध्वा । तपुः । रण्वः । चिकेत । द्यौः-इव । स्मयमानः । नभः-भिः

2.4.7

सः । यः । वि । अस्थात् । अभि । धक्षत् । उर्वीं । पशुः । न । एति । स्व-युः । अगोपाः । अग्निः । शोचिष्मान् । अतसान् । युष्णन् । कृष्ण-व्यथिः । अस्वदयत् । न । भूम

2.4.8

नु । ते । पूर्वस्य । अवसः । अधि-इतौ । तृतीये । विदथे । मन्म । शंसि । अस्मे इति । अग्ने । संयत्-वीरम् । बृहन्तम् । क्षु-मन्तम् । वाजम् । सु-अपत्यम् । रयिम् । दाः

2.4.9

त्वया । यथा । गृत्स-मदासः । अग्ने । गुहा । वन्वन्तः । उपरान् । अभि । स्युरितिस्युः । सु-वीरासः । अभिमाति-सहः । स्मत् । सूरि-भ्यः । गृणते । तत् । वयः । धाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc