भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.6

2.6.1

॥26॥.
-र्व्_2:5।27-
(र्व्_2,6)
इमाम् । मे । अग्ने । सम्-इधम् । इमाम् । उप-सदम् । वनेरितिवनेः । इमाः । ओं इति । सु । श्रुधि । गिरः

2.6.2

अया । ते । अग्ने । विधेम । ऊर्जः । नपात् । अश्वम्-इष्टे । एना । सु-उक्तेन । सु-जात

2.6.3

तम् । त्वा । गीः-भिः । गिर्वणसम् । द्रविणस्युम् । द्रविणः-दः । सपर्येम । सपर्यवः

2.6.4

सः । बोधि । सूरिः । मघवा । वसु-पते । वसु-दावन् । युयोधि । अस्मत् । द्वेषांसि

2.6.5

सः । नः । वृष्टिम् । दिवः । परि । सः । नः । वाजम् । अनर्वाणम् । सः । नः । सहस्रिणीः । इषः

2.6.6

ईळानाय । अवस्यवे । यविष्ठ । दूत । नः । गिरा । यजिष्ठ । होतः । आ । गहि

2.6.7

अन्तः । हि । अग्ने । ईयसे । विद्वान् । जन्म । उभया । कवे । दूतः । जन्याइव । मित्र्यः

2.6.8

सः । विद्वान् । आ । च । पिप्रयः । यक्षि । चिकित्वः । आनुषक् । आ । च । अस्मिन् । सत्सि । बर्हिषि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc