ऋग्वेदसंहिता, पदपाठ · अध्याय 2.41
॥6॥.
-र्व्_2:8।7-
(र्व्_2,41)
वायो इति । ये । ते । सहस्रिणः । रथासः । तेभिः । आ । गहि । नियुत्वान् । सोम-पीतये
नियुत्वान् । वायो इति । आ । गहि । अयम् । शुक्रः । अयामि । ते । गन्ता । असि । सुन्वतः । गृहम्
शुक्रस्य । अद्य । गो--आशिरः । इन्द्रवायूइति । नियुत्वतः । आ । यातम् । पिबतम् । नरा
अयम् । वाम् । मित्रावरुणा । सुतः । सोमः । ऋत-वृधा । मम । इत् । इह । श्रतम् । हवम्
राजानौ । अनभि-द्रुहा । ध्रुवे । सदसि । उत्-तमे । सहस्र-स्थूणे । आसातेइति
॥7॥.
-र्व्_2:8।8-
ता । सम्-राजा । घृतासुती इतिघृत-आसुती । आदित्या । दानुनः । पती । सचेतेइति । अनव-ह्वरम्
गो--मत् । ओं इति । सु । नासत्या । अस्व-वत् । यातम् । अश्विना । वर्तिः । रुद्रा । नृ-पाय्यम्
न । यत् । परः । न । अन्तरः । आदधर्षत् । वृषण्वसूइतिवृषण्-वसू । दुः-शंसः । मर्त्यः । रिपुः
ता । नः । आ । वोळ्हम् । अश्विना । रयिम् । पिशङ्ग-सन्दृशम् । धिष्ण्या । वरिवः-विदम्
इन्द्रः । अङ्ग । महत् । भयम् । अभि । सत् । अप । चुच्यवत् । सः । हि । स्थिरः । वि-चर्षणिः
॥8॥.
-र्व्_2:8।9-
इन्द्रः । च । मृळयाति । नः । न । नः । पश्चात् । अघम् । नशत् । भद्रम् । भवाति । नः । पुरः
इन्द्रः । आशाभ्यः । परि । सर्वाभ्यः । अभयम् । करत् । जेता । शत्रून् । वि-चषर्णिः
विश्वे । देवासः । आ । गत । शृणुत । मे । इमम् । हवम् । आ । इदम् । बर्हिः । नि । सीदत
तीव्रः । वः । मधु-मान् । अयम् । शुन-होत्रेषु । मत्सरः । एतम् । पिबत । काम्यम्
इन्द्र-ज्येष्ठाः । मरुत्-गणाः । देवासः । पूष-रातयः । विश्वे । मम । श्रुत । हवम्
॥9॥.
-र्व्_2:8।10-
अम्बि-तमे । नदी-तमे । देवि-तमे । सरस्वति । अप्रशस्ताः-इव । स्मसि । प्र-शस्तिम् । अम्ब । नः । कृधि
त्वे । विश्वा । सरस्वति । श्रिता । आयूंषि । देव्याम् । शुन-होत्रेषु । मत्स्व । प्र-जाम् । देवि । दिदिड्ढि । नः
इमा । ब्रह्म । सरस्वति । जुषस्व । वाजिनीवति । या । ते । मन्म । गृत्स-मदाः । ऋत-वरि । प्रिया । देवेषु । जुह्वति
प्र । इताम् । यज्ञस्य । शम्-भुवा । युवाम् । इत् । आ । वृणीमहे । अग्निम् । च । हव्य-वाहनम्
द्यावा । नः । पृथिवी इति । इमम् । सिध्रम् । अद्य । दिवि-स्पृशम् । यज्ञम् । देवेषु । यच्छताम्
आ । वाम् । उप-स्थम् । अद्रुहा । देवाः । सीदन्तु । यज्ञियाः । इह । अद्य । सोम-पीतये
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0