ऋग्वेदसंहिता, पदपाठ · अध्याय 2.42
॥10॥.
-र्व्_2:8।11-
(र्व्_2,42)
कनिक्रदत् । जनुषम् । प्र-ब्रुवाणः । इयर्ति । वाचम् । अरिताइव । नावम् । सु-मङ्गलः । च । शकुने । भवासि । मा । त्वा । का । चित् । अभि-भा । विश्व्या । विदत्
मा । त्वा । श्येनः । उत् । वधीत् । मा । सु-पर्णः । मा । त्वा । विदत् । इषु-मान् । वीरः । अस्ता । पित्र्याम् । अनु । प्र-दिशम् । कनिक्रदत् । सु-मङ्गलः । भद्र-वादी । वद । इह
अव । क्रन्द । दक्षिणतः । गृहाणाम् । सु-मङ्गलः । भद्र-वादी । शकुन्ते । मा । नः । स्तेनः । ईशत । मा । अघ-शंसः । बृहत् । वदेम । विदथे । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0