भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.40

2.40.1

॥5॥.
-र्व्_2:8।6-
(र्व्_2,40)
सोमापूषणा । जनना । रयीणाम् । जनना । दिवः । जनना । पृथिव्याः । जातौ । विश्वस्य । भुवनस्य । गोपौ । देवाः । अकृण्वन् । अमृतस्य । नाभिम्

2.40.2

इमौ । देवौ । जायमानौ । जुषन्त । इमौ । तमांसि । गूहताम् । अजुष्टा । आभ्याम् । इन्द्रः । पक्वम् । आमासु । अन्तरिति । सोमापूष-भ्याम् । जनत् । उस्रियासु

2.40.3

सोमापूषणा । रजसः । वि-मानम् । सप्त-चक्रम् । रथम् । अविश्व-मिन्वम् । विषु-वृतम् । मनसा । युज्यमानम् । तम् । जिन्वथः । वृषणा । पञ्च-रश्मिम्

2.40.4

दिवि । अन्यः । सदनम् । चक्रे । उच्चा । पृथिव्याम् । अन्यः । अधि । अन्तरिक्षे । तौ । अस्मभ्यम् । पुरु-वारम् । पुरु-क्षुम् । रायः । पोषम् । वि । स्यताम् । नाभिम् । अस्मे इति

2.40.5

विश्वानि । अन्यः । भुवना । जजान । विश्वम् । अन्यः । अभि-चक्षाणः । एति । सोमापूषणौ । अवतम् । धियम् । मे । युवाभ्याम् । विश्वाः । पृतनाः । जयेम

2.40.6

धियम् । पूषा । जिन्वतु । विश्वम्-इन्वः । रयिम् । सोमः । रयि-पतिः । दधातु । अवतु । देवी । अदितिः । अनर्वा । बृहत् । वदेम । विदथे । सु-वीराः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc