ऋग्वेदसंहिता, पदपाठ · अध्याय 2.39
॥3॥.
-र्व्_2:8।4-
(र्व्_2,39)
ग्रावाणाइव । तत् । इत् । अर्थम् । जरेथेइति । गृध्राइव । वृक्षम् । निधि-मन्तम् । अच्छ । ब्रह्माणाइव । विदथे । उक्थ-शसा । दूताइव । हव्या । जन्या । पुरु-त्रा
प्रातः-यावाना । रथ्याइव । वीरा । अजाइव । यमा । वरम् । आ । सचेथेइति । मेनेइवेतिमेने--इव । तन्वा । शुम्भमानेइति । दम्पतीइवेतिदम्पती-इव । क्रतु-विदा । जनेषु
शृण्गाइव । नः । प्रथमा । गन्तम् । अर्वाक् । शफौ-इव । जर्भुराणा । तरः-भिः । चक्रवाकाइव । प्रति । वस्तोः । उस्रा । अर्वाञ्चा । यातम् । रथ्याइव । शक्रा
नावाइव । नः । पारयतम् । युगाइव । नभ्याइव । नः । उपधी इवेत्य् उपधी-इव । प्रधी इवेत्य् प्रधी-इव । । श्वानाइव । नः । अरिषण्या । तनूनाम् खृगलाइव । वि-स्रसः । पातम् । अस्मान्
वाताइव । अजुर्या । नद्याइव । रीतिः । अक्षीइवेत्य् अक्षी-इव । चक्षुषा । आ । यातम् । अर्वाक् । हस्तौ-इव । तन्वे । शम्-भविष्ठा । पादाइव । नः । नयतम् । वस्यः । अच्छ
॥4॥.
-र्व्_2:8।5-
ओष्ठौ-इव । मधु । आस्ने । वदन्ता । स्तनौ-इव । पिप्यतम् । जीवसे । नः । नासाइव । नः । तन्वः । रक्षितारा । कर्णौ-इव । सु-श्रुता । भूतम् । अस्मे इति
हस्ताइव । शक्तिम् । अभि । सन्ददी इतिसम्-ददी । नः । क्षामाइव । नः । सम् । अजतम् । रजांसि । इमाः । गिरः । अश्व् इना । युष्म-यन्तीः । क्ष्णोत्रेण-इव । स्व-धितिम् । सम् । शिशीतम्
एतानि । वाम् । अश्विना । वर्धनानि । ब्रह्म । स्तोमम् । गृत्स-मदासः । अक्रन् । तानि । नरा । जुजुषाणा । उप । यातम् । बृहत् । वदेम । विदथे । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0