भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.3

2.3.1

॥21॥.
-र्व्_2:5।22-
(र्व्_2,3)
सम्-इद्धः । अग्निः । नि-हितः । पृथिव्याम् । प्रत्यङ् । विश्वानि । भुवनानि । अस्थात् । होता । पावकः । प्र-दिवः । सु-मेधाः । देवः । देवान् । यजतु । अग्निः । अर्हन्

2.3.2

नराशंसः । प्रति । धामानि । अञ्जन् । तिस्रः । दिवः । प्रति । मह्ना । सु-अर्चि ः । घृत-प्रुषा । मनसा । हव्यम् । उन्दन् । मूर्धन् । यज्ञस्य । सम् । अनक्तु । देवान्

2.3.3

ईळितः । अग्ने । मनसा । नः । अर्हन् । देवान् । यक्षि । मानुषात् । पूर्वः । अद्य । सः । आ । वह । मरुताम् । शर्धः । अच्युतम् । इन्द्रम् । नरः । बर्हि-सदम् । यजध्वम्

2.3.4

देव । बर्हिः । वर्धमानम् । सु-वीरम् । स्तीर्णम् । राये । सु-भरम् । वेदी इति । अस्याम् । घृतेन । अक्तम् । वसवः । सीदत । इदम् । विश्वे । देवाः । आदित्याः । यज्ञियासः

2.3.5

वि । श्रयन्ताम् । उर्विया । हूयमानाः । द्वारः । देवीः । सुप्र-अयनाः । नमः-भिः । व्यचस्वतीः । वि । प्रथन्ताम् । अजुर्याः । वर्णम् । पुनानाः । यशसम् । सु-वीरम्

2.3.6

॥22॥.
-र्व्_2:5।23-
साधु । अपांसि । सनता । नः । उक्षिते इति । उषसानक्ता । वय्याइव । रण्विते इति । तन्तुम् । ततम् । संवयन्ती इतिसम्-वयन्ती । समीची इतिसम्-ईची । यज्ञस्य । पेशः । सुदुघेइतिसु-दुघे । पयस्वती इति

2.3.7

दैव्या । होतारा । प्रथमा । विदुः-तरा । ऋजु । यक्षतः । सम् । ऋचा । वपुः-तरा । देवान् । यजन्तौ । ऋतु-था । सम् । अञ्जतः । नाभा । पृथिव्याः । अधि । सानुषु । त्रिषु

2.3.8

सरस्वती । साधयन्ती । धियम् । नः । इळा । देवी । भारती । विश्व-तूर्तिः । तिस्रः । देवीः । स्वधया । बर्हिः । आ । इदम् । अच्छिद्रम् । पान्तु । शरणम् । नि-सद्य

2.3.9

पिशङ्ग-रूपः । सु-भरः । वयः-धाः । श्रुष्टी । वीरः । जायते । देव-कामः । प्र-जाम् । त्वष्टा । वि । स्यतु । नाभिम् । अस्मे इति । अथ । देवानाम् । अपि । एतु । पाथः

2.3.10

वनस्पतिः । अव-सृजन् । उप । स्थात् । अग्निः । हविः । सूदयाति । प्र । धीभिः । त्रिधा । सम्-अक्तम् । नयतु । प्र-जानन् । देवेभ्यः । दैव्यः । शमिता । उप । हव्यम्

2.3.11

घृतम् । मिमिक्षे । घृतम् । अस्य । योनिः । घृते । श्रितः । घृतम् । ओं इति । अस्य । धाम । अनु-स्वधम् । आ । वह । मादयस्व । स्वाहाकृतम् । वृषभ । वक्षि । हव्यम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc