ऋग्वेदसंहिता, पदपाठ · अध्याय 2.38
॥1॥.
-र्व्_2:8।2-
(र्व्_2,38)
उत् । ओं इति । स्यः । देवः । सविता । सवाय । शश्वत्-तमम् । तत्-अपाः । वह्निः । अस्थात् । नूनम् । देवेभ्यः । वि । हि । धाति । रत्नम् । अथ । अभजत् । वीति-होत्रम् । स्वस्तौ
विश्वस्य । हि । श्रुष्टये । देवः । ऊर्ध्वः । प्र । बाहवा । पृथु-पाणिः । सिसर्ति । आपः । चित् । अस्य । व्रते । आ । नि-मृग्राः । अयम् । चित् । वातः । रमते । परि-ज्मन्
आशु-भिः । चित् । यान् । वि । मुचाति । नूनम् । अरीरमत् । अतमानम् । चित् । एतोः । अह्यर्षूणाम् । चित् । नि । अयान् । अविष्याम् । अनु । व्रतम् । सवितुः । मोकी । आ । अगात्
पुनरिति । सम् । अव्यत् । वि-ततम् । वयन्ती । मध्या । कर्तोः । नि । अधात् । शक्म । धीरः । उत् । सम्-हाय । अस्थात् । वि । ऋतून् । अदर्धः । अरमतिः । सविता । देवः । आ । अगात्
नाना । ओकांसि । दुर्यः । विश्वम् । आयुः । वि । तिष्ठते । प्र-भवः । शोकः । अग्नेः । ज्येष्ठम् । माता । सूनवे । भागम् । आ । अधात् । अनु । अस्य । केतम् । इषितम् । सवित्रा
॥2॥.
-र्व्_2:8।3-
सम्-आववर्ति । वि-स्थितः । जिगीषुः । विश्वेषाम् । कामः । चरताम् । अमा । अभूत् । शश्वान् । अपः । वि-कृतम् । हित्वी । आ । अगात् । अनु । व्रतम् । सवितुः । दैव्यस्य
त्वया । हितम् । अप्यम् । अप्-सु । भागम् । धन्व । अनु । आ । मृगयसः । वि । तस्थुः । वनानि । वि-भ्यः । नकिः । अस्य । तानि । व्रता । देवस्य । सवितुः । मिनन्ति
यात्-राध्यम् । वरुणः । योनिम् । अप्यम् । अनि-शितम् । नि-मिषि । जर्भुराणः । विश्वः । मार्ताण्डः । व्रजम् । आ । पशुः । गात् । स्थ-शः । जन्मानि । सविता । वि । आ । अकर् इत्य् अकः
न । यस्य । इन्द्रः । वरुणः । न । मित्रः । व्रतम् । अर्यमा । न । मिनन्ति । रुद्रः । न । अरातयः । तम् । इदम् । स्वस्ति । हुवे । देवम् । सवितारम् । नमः-भिः
भगम् । धियम् । वाजयन्तः । पुरम्-धिम् । नराशंसः । ग्नाःपतिः । नः । अव्याः । आअये । वामस्य । सम्-गथे । रयीणाम् । प्रियाः । देवस्य । सवितुः । स्याम
अस्मभ्यम् । तत् । दिवः । अत्-भ्यः । पृथिव्याः । त्वया । दत्तम् । काम्यम् । राधः । आ । गात् । शम् । यत् । स्तोतृ-भ्यः । आपये । भवाति । उरु-शंसाय । सवितः । जरित्रे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0