ऋग्वेदसंहिता, पदपाठ · अध्याय 2.35
॥21॥.
-र्व्_2:7।22-
(र्व्_2,35)
उप । ईम् । असृक्षि । वाज-युः । वचस्याम् । चनः । दधीत । नाद्यः । गिरः । मे । अपाम् । नपात् । आशु-हेमा । कुवित् । सः । सु-पेशसः । करति । जोषिषत् । हि
इमम् । सु । अस्मै । हृदः । आ । सु-तष्टम् । मन्त्रम् । वोचेम । कुवित् । अस्य । वेदत् । अपाम् । नपात् । असुर्यस्य । मह्ना । विश्वानि । अर्यः । भुवना । जजान
सम् । अन्याः । यन्ति । उप । यन्ति । अन्याः । समानम् । ऊर्वम् । नद्यः । पृणन्ति । तम् । ओं इति । शुचिम् । शुचयः । दीदि-वांसम् । अपाम् । नपातम् । परि । तस्थुः । आपः
तम् । अस्मेराः । युवतयः । युवानम् । मर्मृज्यमानाः । परि । यन्ति । आपः । सः । शुक्रेभिः । शिक्व-भिः । रेवत् । अस्मे इति । दीदाय । अनिध्मः । घृत-निर्निक् । अप्-सु
अस्मै । तिस्रः । अव्यथ्याय । नारीः । देवाय । देवीः । दिधिषन्ति । अन्नम् । कृताइव । उप । हि । प्र-सर्स्रे । अप्-सु । सः । पीयूषम् । धयति । पूर्व-सूनाम्
॥22॥.
-र्व्_2:7।23-
अश्वस्य । अत्र । जनिम । अस्य । च । स्वः । द्रुहः । रिषः । सम्-पृचः । पाहि । सूरीन् । आमासु । पूर्षु । परः । अप्र-मृष्यम् । न । अरातयः । वि । नशन् । न । अनृतानि
स्वे । आ । दमे । सु-दुघा । यस्य । धेनुः । स्वधाम् । पीपाय । सु-भु । अन्नम् । अत्ति । सः । अपाम् । नपात् । ऊर्जयन् । अप्-सु । अन्तः । वसु-देयाय । विधते । वि । भाति
यः । अप्-सु । आ । शुचिना । दैव्येन । ऋत-वा । अजस्रः । उर्विया । वि-भाति । वयाः । इत् । अन्या । भुवनानि । अस्य । प्र । जायन्ते । वीरुधः । च । प्र-जाभिः
अपाम् । नपात् । आ । हि । अस्थात् । उप-स्थम् । जिह्मानाम् । ऊर्ध्वः । विद्युतम् । वसानः । तस्य । ज्येष्ठम् । म्हिमानम् । वहन्तीः । हिरण्य-वर्णाः । परि । यन्ति । यह्वीः
हिरण्य-रूपः । सः । हिरण्य-सन्दृक् । अपाम् । नपात् । सः । इत् । ओं इति । हिरण्य-वर्णः । हिरण्ययात् । परि । योनेः । नि-सद्य । हिरण्य-दाः । ददति । अन्नम् । अस्मै
॥23॥.
-र्व्_2:7।24-
तत् । अस्य । अनीकम् । उत । चारु । नाम । अपीच्यम् । वर्धते । नप्तुः । अपाम् । यम् । इन्धते । युवतयः । सम् । इत्था । हिरण्य-वर्णम् । घृतम् । अन्नम् । अस्य
अस्मै । बहूनाम् । अवमाय । सख्ये । यज्ञैः । विधेम । नमसा । हविः-भिः । सम् । सानु । मार्ज्मि । दिधिषामि । बिल्मैः । दधामि । अन्नैः । परि । वन्दे । ऋक्-भिः
सः । ईम् । वृषा । अजनयत् । तासु । गर्भम् । सः । ईम् । शिशुः । धयति । तम् । रिहन्त् इ । सः । अपाम् । नपात् । अनभिम्लात-वर्णः । अन्यस्य-इव । इह । तन्वा । व् इवेष
अस्मिन् । पदे । परमे । तस्थि-वांसम् । अध्वस्म-भिः । विश्वहा । दीदि-वांसम् । आपः । नप्त्रे । घृतम् । अन्नम् । वहन्तीः । स्वयम् । अत्कैः । परि । दीयन्ति । यह्वीः
अयांसम् । अग्ने । सु-क्षितिम् । जनाय । अयांसम् । ओं इति । मघवत्-भ्यः । सु-वृक्तिम् । विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0