भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.36

2.36.1

॥24॥.
-र्व्_2:7।25-
(र्व्_2,36)
तुभ्यम् । हिन्वानः । वसिष्ट । गाः । अपः । अधुक्षन् । सीम् । अवि-भिः । अद्रि-भिः । नरः । पिब । इन्द्र । स्वाहा । प्र-हुतम् । वषट्-कृतम् । होत्रात् । आ । सोमम् । प्रथमः । यः । ईशिषे

2.36.2

यज्ञैः । सम्-मिश्लाः । पृषतीभिः । ऋष्टि-भिः । यामन् । शुभ्रासः । अञ्जिषु । प्रियाः । उत । आसद्य । बर्हिः । भरतस्य । सूनवः । पोत्रात् । आ । सोमम् । पिबत । दिवः । नरः

2.36.3

अमाइव । नः । सु-हवाः । आ । हि । गन्तन । नि । बर्हिषि । सदतन । रणिष्टन । अथ । मन्दस्व । जुजुषाणः । अन्धसः । त्वष्टः । देवेभिः । जनि-भिः । सुमत्-गणः

2.36.4

आ । वक्षि । देवान् । इह । विप्र । यक्षि । च । उशन् । होतः । नि । सद । योनिषु । त्रिषु । प्रति । वीहि । प्र-स्थितम् । सोम्यम् । मधु । पिब । आग्नीध्रात् । तव । भागस्य । तृप्णुहि

2.36.5

एषः । स्यः । ते । तन्वः । नृम्ण-वर्धनः । सहः । ओजः । प्र-दिवि । बाह्वोः । हितः । तुभ्यम् । सुतः । मघवन् । तुभ्यम् । आभृतः । त्वम् । अस्य । ब्राह्मणात् । आ । तृपत् । पिब

2.36.6

जुषेथाम् । यज्ञम् । बोधतम् । हवस्य । मे । सत्तः । होता । नि-विदः । पूर्व्याः । अनु । अच्छ । राजाना । नमः । एति । आवृतम् । प्र-शास्त्रात् । आ । पिबतम् । सोम्यम् । मधु

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc