ऋग्वेदसंहिता, पदपाठ · अध्याय 2.34
॥18॥.
-र्व्_2:7।19-
(र्व्_2,34)
धारावराः । मरुतः । घृष्णु-ओजसः । मृगाः । न । भीमाः । तविषीभिः । अर्चिनः । अग्नयः । न । शुशुचानाः । ऋजीषिणः । भृमिम् । धमन्तः । अप । गाः । अवृण्वत
द्यावः । न । स्तृ-भिः । चितयन्त । खादिनः । वि । अभ्रियाः । न । द्युतयन्त । वृष्टयः । रुद्रः । यत् । वः । मरुतः । रुक्म-वक्षसः । वृषा । अजनि । पृश्न्याः । शुक्रे । ऊधनि
उक्षन्ते । अश्वान् । अत्यान्-इव । आजिषु । नदस्य । कर्णैः । तुरयन्ते । आशु-भिः । ह् इरण्य-शिप्राः । मरुतः । दविध्वतः । पृक्षम् । याथ । पृषतीभिः । स-मन्यवः
पृक्षे । ता । विश्वा । भुवना । ववक्षिरे । मित्राय । वा । सदम् । आ । जीर-दानवः । पृषत्-अश्वासः । अनवभ्र-राधसः । ऋजिप्यासः । न । वयुनेषु । धूः-सदः
इन्धन्व-भिः । धेनु-भिः । रप्शदूध-भिः । अध्वस्म-भिः । पथि-भिः । भ्राजत्-ऋष्टयः । आ । हंसासः । न । स्वसराणि । गन्तन । मधोः । मदाय । मरुतः । स-मन्यवः
॥19॥.
-र्व्_2:7।20-
आ । नः । ब्रह्माणि । मरुतः । स-मन्यवः । नराम् । न । शंसः । सवनानि । गन्तन । अश्वाम्-इव । पिप्यत । धेनुम् । ऊधनि । कर्ता । धियम् । जरित्रे । वाज-पेशसम्
तम् । नः । दात । मरुतः । वाजिनम् । रथे । आपानम् । ब्रह्म । चितयत् । दिवे--दिवे । इषम् । स्तोतृ-भ्यः । वृजनेषु । कारवे । सनिम् । मेधाम् । अरिष्टम् । दुस्तरम् । सहः
यत् । युञ्जते । मरुतः । रुक्म-वक्षसः । अश्वान् । रथेषु । भगे । आ । सु-दानवः । धेनुः । न । शिश्वे । स्वसरेषु । पिन्वते । जनाय । रात-हविषे । महीम् । इषम्
यः । नः । मरुतः । वृक-ताति । मर्त्यः । रिपुः । दधे । वसवः । रक्षत । रिषः । वर्तयत । वपुषा । चक्रिया । अभि । तम् । अव । रुद्राः । अशसः । हन्तन । वधरिति
चित्रम् । तत् । वः । मरुतः । याम । चेकिते । पृश्न्याः । यत् । ऊधः । अपि । आपयः । दुहुः । यत् । वा । निदे । नवमानस्य । रुद्रियाः । त्रितम् । जराय । जुरताम् । अदाभ्याः
॥20॥.
-र्व्_2:7।21-
तान् । वः । महः । मरुतः । एव-याव्नः । विष्णोः । एषस्य । प्र-भृथे । हवामहे । हिरण्य-वर्णान् । ककुहान् । यत-स्रुचः । ब्रह्मण्यन्तः । शंस्यम् । राधः । ईमहे
ते । दश-ग्वाः । प्रथमाः । यज्ञम् । ऊहिरे । ते । नः । हिन्वन्तु । उषसः । वि-उष्टिषु । उषाः । न । रामीः । अरुणैः । अप । ऊर्णुते । महः । ज्योतिषा । शुचता । गो--अर्णसा
ते । क्षोणीभिः । अरुणेभिः । न । अञ्जि-भिः । रुद्राः । ऋतस्य । सदनेषु । ववृधुः । नि--मेघमानाः । अत्येन । पाजसा । सु-चन्द्रम् । वर्णम् । दधिरे । सु-पेशसम्
तान् । इयानः । महि । वरूथम् । ऊतये । उप । घ । इत् । एना । नमसा । गृणीमसि । त्रितः । न । यान् । पञ्च । होतृॠन् । अभिष्टये । आववर्तत् । अवरान् । चक्रिया । अवसे
यया । रध्रम् । पारयथ । अति । अंहः । यया । निदः । मुञ्चथ । वन्दितारम् । अर्वाची । सा । मरुतः । या । वः । ऊतिः । ओ इति । सु । वाश्राइव । सु-मतिः । जिगातु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0