भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.33

2.33.1

॥15॥.
-र्व्_2:7।16-
(र्व्_2,33)
आ । ते । पितः । मरुताम् । सुम्नम् । एतु । मा । नः । सूर्यस्य । सम्-दृशः । युयोथाः । अभि । नः । वीरः । अर्वति । क्षमेत । प्र । जायेमहि । रुद्र । प्र-जाभिः

2.33.2

त्वादत्तेभिः । रुद्र । शम्-तमेभिः । शतम् । हिमाः । अशीय । भेषजेभिः । वि । अस्मत् । द्वेषः । वि-तरम् । वि । अंहः । वि । अमीवाः । चातयस्व । विषूचीः

2.33.3

श्रेष्ठः । जातस्य । रुद्र । श्रिया । असि । तवः-तमः । तवसाम् । वज्रबाहो इतिवज्र-बाहो । पर्षि । नः । पारम् । अंहसः । स्वस्ति । विश्वाः । अभि-इतीः । रपसः । युयोधि

2.33.4

मा । त्वा । रुद्र । चुक्रुधाम । नमः-भिः । मा । दुः-स्तुती । वृषभ । मा । स-हूती । उत् । नः । वीरान् । अर्पय । भेषजेभिः । भिषक्-तमम् । त्वा । भिषजाम् । शृणोमि

2.33.5

हवीम-भिः । हवते । यः । हविः-भिः । अव । स्तोमेभिः । रुद्रम् । दिषीय । ऋदूदरः । सु-हवः । मा । नः । अस्यै । बभ्रुः । सु-शिप्रः । रीरधत् । मनायै

2.33.6

॥16॥.
-र्व्_2:7।17-
उत् । मा । ममन्द । वृषभः । मरुत्वान् । त्वक्षीयसा । वयसा । नाधमानम् । घृणि-इव । छायाम् । अरपाः । अशीय । विवासेयम् । रुद्रस्य । सुम्नम्

2.33.7

क्व । स्यः । ते । रुद्र । मृळयाकुः । हस्तः । यः । अस्ति । भेषजः । जलाषः । अप-भर्ता । रपसः । दैव्यस्य । अभि । नु । मा । वृषभ । चक्षमीथाः

2.33.8

प्र । बभ्रवे । वृषभाय । श्वितीचे । महः । महीम् । सु-स्तुतिम् । ईरयामि । नमस्य । कल्मलीकिनम् । नमः-भिः । गृणीमसि । त्वेषम् । रुद्रस्य । नाम

2.33.9

स्थिरेभिः । अङ्गैः । पुरु-रूपः । उग्रः । बभ्रुः । शुक्रेभिः । पिपिशे । हिरण्यैः । ईशानात् । अस्य । भुवनस्य । भूरेः । न । वै । ओं इति । योषत् । रुद्रात् । असुर्यम्

2.33.10

अर्हन् । बिभर्षि । सायकानि । धन्व । अर्हन् । निष्कम् । यजतम् । विश्व-रूपम् । अर्हन् । इदम् । दयसे । विश्वम् । अभ्वम् । न । वै । ओजीयः । रुद्र । त्वत् । अस्ति

2.33.11

॥17॥.
-र्व्_2:7।18-
स्तुहि । श्रुतम् । गर्त-सदम् । युवानम् । मृगम् । न । भीमम् । उप-हत्नुम् । उग्रम् । मृळ । जरित्रे । रुद्र । स्तवानः । अन्यम् । ते । अस्मत् । नि । वपन्तु । सेनाः

2.33.12

कुमारः । चित् । पितरम् । वन्दमानम् । प्रति । ननाम । रुद्र । उप-यन्तम् । भूरेः । दातारम् । सत्-पतिम् । गृणीषे । स्तुतः । त्वम् । भेषजा । रासि । अस्मे इति

2.33.13

या । वः । भेषजा । मरुतः । शुचीनि । या । शम्-तमा । वृषणः । या । मयः-भु । यानि । मनुः । अवृणीत । पिता । नः । ता । शम् । च । योः । च । रुद्रस्य । वश्मि

2.33.14

परि । नः । हेतिः । रुद्रस्य । वृज्याः । परि । त्वेषस्य । दुः-मतिः । मही । गात् । अव । स्थिरा । मघवत्-भ्यः । तनुष्व । मीढवः । तोकाय । तनयाय । मृळ

2.33.15

एव । बभ्रो इति । वृषभ । चेकितान । यथा । देव । न । हृणीषे । न । हंसि । हवन-श्रुत् । नः । रुद्र । इह । बोधि । बृहत् । वदेम । विदथे । सु-वीराः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc