भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 2.32

2.32.1

॥14॥.
-र्व्_2:7।15-
(र्व्_2,32)
अस्य । मे । द्यावापृथिवी इति । ऋत-यतः । भूतम् । अवित्री इति । वचसः । सिसासतः । ययोः । आयुः । प्र-तरम् । तेइति । इदम् । पुरः । उपस्तुतेइत्य् उप-स्तुते । वसु-युः । वा । महः । दधे

2.32.2

मा । नः । गुह्याः । रिपः । आयोः । अहन् । दभन् । मा । नः । आभ्यः । रीरधः । दुच्छुनाभ्यः । मा । नः । वि । यौः । सख्या । विद्धि । तस्य । नः । सुम्न-यता । मनसा । तत् । त्वा । ईमहे

2.32.3

अहेळता । मनसा । श्रुष्टिम् । आ । वह । दुहानाम् । धेनुम् । पिप्युषीम् । असश्चतम् । पद्याभिः । आशुम् । वचसा । च । वाजिनम् । त्वाम् । हिनोमि । पुरु-हूत । विश्वहा

2.32.4

राकाम् । अहम् । सु-हवाम् । सु-स्तुती । हुवे । शृणोतु । नः । सु-भगा । बोधतु । त्मना । सीव्यतु । अपः । सूच्या । अच्छिद्यमानया । ददातु । वीरम् । शत-दायम् । उक्थ्यम्

2.32.5

याः । ते । राके । सु-मतयः । सु-पेशसः । याभिः । ददासि । दाशुषे । वसूनि । ताभिः । नः । अद्य । सु-मनाः । उप-आगहि । सहस्र-पोषम् । सु-भगे । रराणा

2.32.6

सिनीवालि । पृथु-स्तुके । या । देवानाम् । असि । स्वसा । जुषस्व । हव्यम् । आहुतम् । प्र-जाम् । देवि । दिदिड्ढि । नः

2.32.7

या । सु-बाहुः । सु-अङ्गुरिः । सु-सूमा । बहु-सूवरी । तस्यै । विश्पत्न्यै । हविः । सिनीवाल्यै । जुहोतन

2.32.8

या । गुङ्गूः । या । सिनीवाली । या । राका । या । सरस्वती । इन्द्राणीम् । अह्वे । ऊतये । वरुणानीम् । स्वस्तये

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc