ऋग्वेदसंहिता, पदपाठ · अध्याय 2.31
॥13॥.
-र्व्_2:7।14-
(र्व्_2,31)
अस्माकम् । मित्रावरुणा । अवतम् । रथम् । आदित्यैः । रुद्रैः । वसु-भिः । सचाभुवा । प्र । यत् । वयः । न । पप्तन् । वस्मनः । परि । श्रवस्यवः । हृषीवन्तः । वन-सदः
अध । स्म । नः । उत् । अवत । स-जोषसः । रथम् । देवासः । अभि । विक्षु । वाज-युम् । यत् । आशवः । पद्याभिः । तित्रतः । रजः । पृथिव्याः । सानौ । जङ्घनन्त । पाणि-भिः
उत । स्यः । नः । इन्द्रः । विश्व-चर्षणिः । दिवः । शर्धेन । मारुतेन । सु-क्रतुः । अनु । नु । स्थाति । अवृकाभिः । ऊति-भिः । रथम् । महे । सनये । वाज-सातये
उत । स्यः । देवः । भुवनस्य । सक्षणिः । त्वष्टा । ग्नाभिः । स-जोषाः । जूजुवत् । रथम् । इळा । भगः । बृहत्-दिवा । उत । रोदसी इति । पूषा । पुरम्-धिः । अश्विनौ । अध । पती इति
उत । त्ये । देवी इति । सुभगेइतिसु-भगे । मिथु-दृशा । उषसानक्ता । जगताम् । अपि-जुवा । स्तुषे । यत् । वाम् । पृथिवि । नव्यसा । वचः । स्थातुः । च । वयः । त्रि-वयाः । उप-स्तिरे
उत । वः । शंसम् । उशिजाम्-इव । श्मसि । अहिः । बुध्न्यः । अज । एक-पात् । उत । त्रितः । ऋभु-क्षाः । सविता । चनः । दधे । अपाम् । नपात् । आशु-हेमा । धिया । शमि
एता । वः । वश्मि । उत्-यता । यजत्राः । अतक्षन् । आयवः । नव्यसे । सम् । श्रवस्यवः । वाजम् । चकानाः । सप्तिः । न । रथ्यः । अह । धीतिम् । अश्याः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0